Enter your Email Address to subscribe to our newsletters

-बाबतपुरविमानपत्तकनात् बरेका यावत् स्थाने -२ स्वागतकेंद्रे दक्का -निनादस्य मध्ये पुष्पवर्षा
वाराणसी, 07 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वस्य संसदीयराज्यस्य वाराणस्याः द्विदिवसीयदौर्याय शुक्रवारसन्ध्यायां आगच्छन्ति। प्रधानमन्त्रिणः भव्यस्वागार्थं भारतीयजनतापक्षः (भाजपा) काशिक्षेत्रे सम्पूर्णतया सज्जः अस्ति। प्रधानमन्त्रिणः वाहनमालायाः मार्गे पुष्पवृष्ट्यर्थं षट् स्वागतस्थानानि विन्यस्तानि सन्ति। तेषु स्वागतस्थानेषु कार्यकर्तारः सामान्यजनैः सह ढोलनगारेषु निनादयन्तः प्रधानमन्त्रिणः स्वागतं करिष्यन्ति। प्रधानमन्त्रिणः आगमनं प्रति सर्वत्र नगरमध्ये उत्साहवातावरणं विद्यमानम् अस्ति।
भाजपाकाशिक्षेत्राधिकारिणां अनुसारं प्रधानमन्त्री सायं पञ्चवादनदशमिनिटे बिहारभभूवास्थिते जनसभां संबोध्य ततः बाबतपुरे स्थिते लालबहादुरशास्त्रीअन्तर्राष्ट्रीयविमानपत्तने आगमिष्यन्ति। तत्र विमानतले तेषां स्वागतं प्रदेशमुख्यमन्त्री योगीआदित्यनाथः, जिल्याः प्रभारीमन्त्री च सुरेशकुमारखन्ना च करिष्यतः। ततः ते सडकमार्गेण बरेकागेस्टहाउसम् आगमिष्यन्ति। मार्गे सर्वत्र गुलाबपङ्खुकीनां छेदनं, बैंडबाजानां निनादः, आरतीशङ्खनादादिभिः अभिनन्दनस्य व्यवस्था कृता अस्ति।
प्रधानमन्त्री मोदी बरेकाथितिगृहे किञ्चित्कालं विश्रान्त्वा सायंकाले तत्रैव भाजपा-नेतृभिः जनप्रतिनिधिभिश्च सह उपवेशनंकरिष्यन्ति। ततः तत्रैव रात्रौ विश्रान्तिं करिष्यन्ति।
परदिने अष्टमे नवम्बरमासदिनाङ्के प्रधानमन्त्री बरेकागेस्टहाउसम् त्यक्त्वा बनारसरैल्वेयनिवेशने आगमिष्यन्ति, यत्र ते बनारसखजुराहोमार्गेण चित्रकूटं यान्ती वन्देभारतएक्स्प्रेस् सहितं चत्वारि वन्देभारतयानानि हरितध्वजेन प्रेषयिष्यन्ति। उपस्थितजनान् सम्बोध्य प्रधानमन्त्री मोदी बाबतपुरविमानपत्तनात् बिहारदरभङ्गाय प्रस्थितः भविष्यति। अस्मिन् समये प्रदेशमुख्यमन्त्री योगीआदित्यनाथः रेलमन्त्री अश्विनीवैष्णवश्च तत्र उपस्थितौ भविष्यतः।
---------------
हिन्दुस्थान समाचार