मध्यप्रदेशः :- भोपालस्य शौर्यस्मारके अद्य वन्दे मातरम् गीतस्य समवेतगायनं भव्यरूपेण आयोज्यते। १५० कलाकाराः सहभागिनो भविष्यन्ति।
- मुख्यमन्त्री मोहन यादवः करिष्यन्ति वन्देमातरम् १५०तमः स्मरणोत्सवस्य शुभारम्भम्। भोपालम्, 07 नवंबरमासः (हि.स.)। मध्यप्रदेशे मुख्यमन्त्री डा॰ मोहन यादवः अद्य शुक्रवासरे प्रातः ८:३० वादने भोपालनगरस्य शौर्यस्मारके “वन्दे मातरम् १५०तमः स्मरणोत्सव” इत
राष्ट्रगीत ‘वंदे मातरम्’ के 150 वर्ष पूर्ण  (प्रतीकात्मक तस्वीर)


- मुख्यमन्त्री मोहन यादवः करिष्यन्ति वन्देमातरम् १५०तमः स्मरणोत्सवस्य शुभारम्भम्।

भोपालम्, 07 नवंबरमासः (हि.स.)। मध्यप्रदेशे मुख्यमन्त्री डा॰ मोहन यादवः अद्य शुक्रवासरे प्रातः ८:३० वादने भोपालनगरस्य शौर्यस्मारके “वन्दे मातरम् १५०तमः स्मरणोत्सव” इत्यस्य शुभारम्भं करिष्यन्ति। अस्मिन् कार्यक्रमे नवदेहलीतः प्रधानमन्त्रिणः नरेन्द्रमोदिनः कार्यक्रमस्य प्रत्यक्षप्रसारणं भविष्यति। ततः अनन्तरं १५० कलाकारैः सह राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य समवेतगायनं भविष्यति।

जनसम्पर्काधिकारी अनुराग उइके इत्यनेन प्रदत्तया सूचनया उक्तं यत् अस्य अवसरस्य निमित्तं शौर्यस्मारकात् म्याराथननामकः आयोजनः प्रातः ८:३० वादने यावत् क्रियिष्यते। ततः परं मुख्यकार्यक्रमे आरक्षकवाद्यदलः राष्ट्रभक्तिगीतानां प्रस्तुतीं दास्यति। तस्मिन्नेव परिसरमध्ये प्रदर्शिनीनामकं आयोजनमपि क्रियते, यस्मिन् वन्दे मातरम् तथा स्वातन्त्र्यसंग्रामसंबद्धानि चित्राणि प्रदर्श्यन्ते। अस्मिन् कार्यक्रमे सर्वेषां प्रवेशनं निःशुल्कं भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani