मध्यप्रदेशे मुख्यामन्त्री अद्य ८७७ नव-निर्वाचितान् कर्मकरेभ्यः नियुक्तिपत्राणि च पदास्थापनादेशांश्च प्रदास्यति।
भोपालम्, 07 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यामन्त्री डॉ॰ मोहनः यादवः अद्य शुक्रवारस्य दिने पूर्वाह्णे ११.३० वादने भोपालनगरस्थे कुशाभाऊ ठाकरे सम्मेलनकेन्द्रे वनविभागस्य तथा लोकस्वास्थ्य–चिकित्साशिक्षा विभागस्य कुल ८७७ अधिकाऱ–कर्मचारिणः नियुक्त
सीएम मोहन यादव


भोपालम्, 07 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यामन्त्री डॉ॰ मोहनः यादवः अद्य शुक्रवारस्य दिने पूर्वाह्णे ११.३० वादने भोपालनगरस्थे कुशाभाऊ ठाकरे सम्मेलनकेन्द्रे वनविभागस्य तथा लोकस्वास्थ्य–चिकित्साशिक्षा विभागस्य कुल ८७७ अधिकाऱ–कर्मचारिणः नियुक्त्याः च पदास्थापनादेशान् च प्रदास्यति। अस्मिन् कार्यक्रमे वनविभागस्य ५४३ नव–नियुक्ताः शासकीयसेवकाः (वनरक्षकाः च वनक्षेत्रपालाश्च) तथा लोकस्वास्थ्य–चिकित्साशिक्षा विभागस्य ३३४ नव–नियुक्ताः शासकीयसेवकाः (विशेषज्ञाः च नर्सिंगाधिकारिण्यः च) सम्मिलिताः भवन्ति।

जनसम्पर्काधिकारिणा के॰के॰ जोशी इत्यनेन प्रदत्तया सूचना उक्तम्— अस्मिन् कार्यक्रमे उपमुख्यमन्त्री राजेन्द्रः शुक्लः, लोकस्वास्थ्यचिकित्साशिक्षा राज्यमन्त्री नरेन्द्रः शिवाजी पटेलः, वन–पर्यावरण राज्यमन्त्री दिलीपः अहिरवारः, वनविभागस्य अपरमुख्यसचिवः अशोकः बर्णवालः, लोकस्वास्थ्य–चिकित्साशिक्षा विभागस्य प्रमुखसचिवः सन्दीपः यादवः, प्रधानमुख्यवनसंरक्षकः व्ही॰एन॰ अम्बाडे इत्येते अपि उपस्थिताः भविष्यन्ति।

जनसम्पर्काधिकारिणः उक्त्यनुसारं लोकस्वास्थ्य–चिकित्साशिक्षा विभागे मध्यप्रदेश लोकसेवासमित्या भर्ती परीक्षा २०२४–२५ वर्षस्य परिणामतः ७५ निश्चेतनविशेषज्ञान्, ६२ शल्यविशेषज्ञान्, १०६ शिशुरोगविशेषज्ञान्, ९१ नर्सिंग–अधिकाऱिणः च नियुक्तिपत्रैः सम्मानयिष्यति।

वनविभागे मध्यप्रदेश कर्मचारी–चयनमण्डलेन भोपालनगरस्थेन २०२२–२३ वर्षे आयोजितायां वनरक्षक–नियुक्तिपरीक्षायाम् उतीर्णाः ४६७ नवनियुक्ताः वनरक्षकाः, येषां वानिकी–प्रशिक्षणं वनप्रशिक्षणविद्यालयेषु सम्पन्नम् अस्ति, तेषां पदास्थापनादेशाः प्रदास्यन्ते।साथमेव मध्यप्रदेश लोकसेवासमित्या आयोजितायां वनक्षेत्रपालनियुक्तिः परीक्षायां २०२०–२१ वर्षे चयनिताः ७६ वनक्षेत्रपालाः अपि पदास्थापनादेशैः सम्मानयिष्यन्ते। एते सर्वे देशस्य विविधासु प्रशिक्षण–अकादमीषु अष्टादशमासपर्यन्तं प्रशिक्षणं समाप्य सज्जाः अभवन्।

हिन्दुस्थान समाचार / Dheeraj Maithani