Enter your Email Address to subscribe to our newsletters



- संस्कृतभाषायाः पुनरुत्थानदिशि नूतना ऊर्जा
- राष्ट्रात्समग्रात् चतुःसहस्राद् अधिकैर्निर्व्यूढः प्रतिनिधित्वेन सहभागः
- संस्कृतं जीवनभाषां कर्तुं समाह्वानम्
कोयम्बटूरम् , ०७ नवम्बरमासः२०२५(हि.स.)। संस्कृतभाषायाः प्रचारार्थं प्रसारार्थं पुनरुत्थानार्थञ्च समर्पितया संस्थया संस्कृतभारत्या अमृताविश्वविद्यापीठे भव्यतरा त्रिदिवसीयम् अखिलभारतीयम् अधिवेशनम् समायोजितम्। यच्च नवम्यां तिथौ सम्पूर्तिं गमिष्यति। अधिवेशनेऽस्मिन् अखिलभारतात्समेभ्यो प्रान्तेभ्यः समागतैः प्रायेण चतुःसहस्राद् अधिकैः प्रतिनिधिभिः सहभागित्वं निर्व्यूढम्। उद्घाटनसमारोहः प्रातः दशवादने वन्देमातमित्यनेन गीतगायनेन गणेशप्रार्थनारूपेन मङ्गलेन च सञ्जातः।
अवसरेऽमुष्मिन् परमपूज्या माता अमृतानन्दमयी अथ शृङ्गेरीपीठाधीश्वरः परमपूज्यः श्रीश्रीविदशेखरभारतीतीर्थस्वामी इत्येतयोः आशीर्वचनानि सञ्चारमाध्यमेन प्रासरन्। मुख्यातिथित्वेन मान्यो श्रीदत्तात्रेयहोसबाले, सरकार्यवाहः, राष्ट्रीयस्वयंसेवकसङ्घः, विशिष्टातिथिरूपेण महामहोपाध्यायः डॉ. मणिद्रविडशास्त्री, आचार्यः, मद्राससंस्कृतमहाविद्यालयः, चेन्नैस्थः च उपस्थितौ आस्मात्। अथ च परमपूज्यः कामाक्षीदासस्वामीजी (तिरुपुल्लियूरआधीनम्) तपस्यामृतानन्दपुरीस्वामीजी च (अमृता विश्वविद्यापीठात्) तत्र उपस्थितौ आसाताम्। तयोः पावनसन्निधिरयं समारोहस्य गौरवम् अवर्धयत्।
एवञ्चाधिमञ्चं संस्कृतभारत्याः अखिलभारतीयाध्यक्षः प्रो. गोपबन्धुमिश्रः, उपाध्यक्षा श्रीमती अमितापृथ्वी, सचिवः श्रीसत्यनारायणभट्टः च आसन्। स्वागतसमितेः अध्यक्षः श्रीनागसुब्रह्मण्यन् अतिथीन् स्वागतीकृतवान्। श्रीमती अमितापृथ्वी मञ्चासीनानाम् अतिथीनाम् परिचयमकारयत्। ततः सचिवः श्रीसत्यनारायणभट्टः प्रास्ताविकभाषणेन संस्कृतभारत्याः लक्ष्यं भाविनः कार्यक्रमांश्च प्राकाशयत्।
आशीर्वचनोत्तरं भगवद्गीतायाः द्वादशाध्यायस्य सामूहिकपारायणं समुपस्थितैर्विहितं, येन सम्पूर्णं सभामण्डपम् आध्यात्मिकेन वातावरणेन पूर्णम् अभवत्। अवसरेऽमुष्मिन् श्रीदत्तात्रेयहोसबाले अवोचद्यद् अस्माभिः संस्कृतभाषया भाषणीयं न तु संस्कृतविषये।” सः अपि डॉ. भीमरावअम्बेडकरस्य संविधानसभायां संस्कृतं राजभाषारूपेण स्वीकरणस्म प्रस्तावं समुल्लिखितवान् यत्पण्डितजवाहरलालनेहरुः च संस्कृतं भारतस्य निक्षेपः इति उक्तवान्। सोऽवदत् संस्कृतभाषा न कस्यचित् एकस्य वर्गस्य, न वा समुदायस्य, अपि तु सर्वभारतीयानां सामूहिकी स्वाभाविकी भाषा अस्ति। महामहोपाध्यायः डॉ. मणिद्रविडशास्त्री अपि संस्कृतस्य आधुनिकोपयोगित्वं सार्वभौमिकत्वं च विवेचनपूर्वकं प्राकाशयत्।
संदर्भेऽस्मिन् संस्कृतभारत्या त्रयः नूतनाः ग्रन्थाः “वन्दनाचन्दनग्रामात्”, “भाषाविश्लेषणरश्मिः”, “ग्रन्थरश्मिः” इत्येते लोकाय अर्पिताः मञ्चस्थैर्महाभागैरेभिः। पूर्वम् अखिलभारतीयप्रशिक्षणप्रमुखः डॉ. विश्वासः एतेषां ग्रन्थानां संक्षिप्तपरिचयं प्रास्तौत् । उद्घाटनसत्रस्य समापनं शान्तिमन्त्रेण सञ्जातम्।
उद्घाटनसत्रानन्तरं दिवसे त्रीणि सत्राणि आयोजितानि। तत्र द्वितीयसत्रे देशस्य विविधेभ्यः प्रदेशेभ्यः प्राप्ताः प्रतिनिधयः वृत्तकथनरूपेण स्वस्वप्रान्तीयानि संस्कृतभारत्या विहितकार्याणि उपस्थापितवन्तः। एतत् सत्रं संगठनस्य गतिशीलतां संस्कृतसेवायाश्च देशव्याप्तित्वं प्रकटीकृतवत्।
तृतीयसत्रे संस्कृतभारत्याः प्रकाशनानि, सम्भाषणसन्देशः, ईसम्पत् नामकं पटलं चेत्येषां विषये विवेचनं मञ्चस्थैः विद्वद्भिः कृतम्। वक्तारः अवदन् यत् एतत् पटलं संस्कृताध्ययनस्य अनुसन्धानस्य च संसाधनलाभस्य सुलभो विशिष्टो माध्यमो भविष्यति इति।
दिनान्ते सांस्कृतिकसत्रं सम्पन्नम्। तत्र विविधाः सांस्कृतिक्यः प्रस्तुतयः आसीत्। विशेषाकर्षणरूपेण भाणनृत्यस्य मनोहरं प्रदर्शनम् अभवत्, येन श्रोतारः संस्कृतनाट्यपरम्परायाः गौरवं साक्षात् अनुभूतवन्तः।
अधिवेशनस्य प्रथमः दिवसः ज्ञानसंवादनवोन्मेषसंस्कृतिसंमिश्रितरूपोऽद्भुतः सङ्गमोऽभवत्। एषः संस्कृतभारत्याः आयोजनविशेषः संस्कृतभाषां केवलम् अध्ययनविषयो न कृत्वा व्यवहारभाषारूपेण प्रतिष्ठापयितुं राष्ट्रव्यापि अभियानं नूतनया गतये प्रेरयति।
Hindusthan Samachar / अंशु गुप्ता