Enter your Email Address to subscribe to our newsletters

पूर्वराष्ट्रपतिः रामनाथः कोविन्दः अधिवेशनस्य उद्घाटनं करिष्यति।
रीवा (मध्यप्रदेशः), 7 नवम्बरमास: (हि.स.) — अखिलभारतीयसाहित्यपरिषद: सप्तदशमं अखिलभारतीय-अधिवेशनं मध्यप्रदेशराज्यस्य रीवानगरे अद्य आरभ्यते। अत्र कृष्णाराजकपूरनाम्नि सभागृहे अस्य अधिवेशनस्य आयोजनं भवति। तत्र पूर्वराष्ट्रपतिः श्रीरामनाथः कोविन्दः मुख्यातिथिरूपेण उपस्थित्य अधिवेशनस्य शुभारम्भं करिष्यति। कार्यक्रमस्य अध्यक्षतां परिषद: अध्यक्षः डॉ॰ सुशीलचन्द्रः त्रिवेदी मधुपेश इति नामधेयेन करिष्यति। अस्मिन्नेव समारोहमध्ये मध्यप्रदेशस्य उपमुख्यमन्त्री श्रीराजेन्द्रः शुक्लः विशिष्टातिथिरूपेण भागं ग्रहीष्यति।
परिषद: महाकौशलप्रान्तमहामन्त्री चन्द्रकान्तः तिवारी इत्यनेन एषा सूचना प्रदत्ता। ते उक्तवन्तः यत् अधिवेशनस्यारम्भात्पूर्वं अद्य द्वादशवादने प्रदर्शिन्याः उद्घाटनं भविष्यति। ततः परं अपराह्णे त्रिवादने अधिवेशनस्य प्रारम्भः भविष्यति। सायं पञ्चवादने त्रिंशद्विनिमेषे कृष्णाराजकपूरसभागृहात् शोभायात्रा निर्गमिष्यति। सा शोभायात्रा सिरमौरचौराहात् आरभ्य अमहिया, स्वागतभवनं, शिल्पिप्लाजा, साईमन्दिरं, मानसभवनं, कालेजचौराहं च गत्वा पुनः कृष्णाराजकपूरसभागृहे समाप्ता भविष्यति। उद्घाटनसत्रस्य अन्ते रात्रौ नववादने सांस्कृतिककार्यक्रमाः कविसम्मेलनं च आयोज्येते।
प्रान्तीयमहामन्त्री तिवारी उक्तवान् यत् अधिवेशनस्य द्वितीये दिने (अष्टम - नवम्बरमासे) प्रातः दशवादनात् विविधानि सत्राणि भविष्यन्ति, तत्र विषयविशेषेषु चिन्तनसंवादः च विद्वत्सभायां व्याख्यानानि च भविष्यन्ति। रात्रौ नववादने सर्वभाषाकविसम्मेलनम् आयोज्यते। तृतीये दिने (नवमे नवम्बरमासे) प्रातः सार्धनववादनात् आरभ्य उपवेशनानि व्याख्यानसत्राणि च भविष्यन्ति। अपराह्णे सार्धद्विवादने समापनसत्रं भवति, ततः अधिवेशनस्य औपचारिकं समापनं करिष्यते। रीवानगरे प्रथमवारं आयोजितेऽस्मिन्नखिलभारतीय-साहित्यपरिषदाधिवेशने सहस्रातिरिक्ता साहित्यकाराः विद्वांश्च सम्मिलन्ति।
पूर्वराष्ट्रपतिः श्रीरामनाथः कोविन्दः नवीदेहलीत: निर्गत्य भोपालं यास्यन्ति, ततः विमानमार्गेण द्विवादने रीवाविमानपत्तनम् आगमिष्यति। अपराह्ने त्रिवादनात् चतुर्वादनपर्यन्तं ते कृष्णाराजकपूरसभागृहे आयोज्यमाने परिषद्सभायां भागं ग्रहीष्यति। ततः सायं चतुर्वादने ते पुनः विमानमार्गेण भोपालं प्रतिनिवर्तिष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani