Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 7 नवंबरमासः (हि.स.)। राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य शतपञ्चाशद्वर्षपूर्णोत्सवस्य अवसरं प्रति भारतीय राष्ट्रिय कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे इत्यनेन शुक्रवारदिने “एक्स” नामक सामाजिकमाध्यमे स्वसंदेशः प्रकाशितः। सः अवदत् यद् वन्दे मातरम् इदं गीतं भारतस्य सामूहिकचेतनायाः प्रतीकं, यत् स्वतंत्रतासंग्रामं नूतनदिशां प्रति अनयत्।
स्वसंदेशे सः लिखितवान् यद् बङ्किमचन्द्रचट्टोपाध्यायेन रचितं वन्दे मातरम् भारतमातुः भावनां देशस्य ऐक्यं च विविधतां च उत्सवयति। ईसवीसंवत् 1896 तमे वर्षे कलकत्तायां कांग्रेससभायां प्रथमवारं वन्दे मातरम् इति गीतं गुरुदेवेन रवीन्द्रनाथठाकुरेण सार्वजनिकरूपेण गायतं जातम्। तदेव क्षणं स्वतंत्रतासंग्रामे नूतनां ऊर्जा आवहद्।
सः उक्तवान् यद् बंगालविभाजनात् आरभ्य स्वतंत्रतासंग्रामस्य अन्तिमावसानपर्यन्तं एषः गीतः सर्वत्र देशे निनादितवान्। लाला लाजपत रायस्य प्रकाशनात् आरभ्य भीकाजी कामायाः ध्वजे रामप्रसाद बिस्मिलस्य क्रान्तिगीताञ्जल्यां च वन्दे मातरम् स्वतंत्रतायाः घोषवाक्यं जातम्।
अन्ते सः लिखितवान्— भारतीय राष्ट्रीय कांग्रेस वन्दे मातरम् जनगणमन इत्युभयोः गीतयोः गर्वेण गानं करोति, यतः एते गीतौ भारतस्य ऐक्यस्य विविधतायाः च राष्ट्रियगौरवस्य च प्रतीकौ स्तः।
---------------
हिन्दुस्थान समाचार