Enter your Email Address to subscribe to our newsletters

वाराणसी, 07 नवम्बरमासः (हि.स.)। वाराणस्यां नमोघाटे वन्दे मातरं राष्ट्रगीतस्य 150 तमं स्मरणदिवससमारोहम् आचर्यमाणं आसीत्। अस्मिन् अवसरे मुख्यातिथिरूपेण आगतः मन्त्री सुरेशखन्ना इत्यनेन दीपप्रज्ज्वलनं कृत्वा समारोहस्य शुभारम्भं कृतम्।
समारोहे मन्त्री सुरेशखन्ना अवदत् यद् “‘वन्दे मातरम्’ इति राष्ट्रगीतं बङ्किमचन्द्रचट्टोपाध्यायेन 1875 तमे वर्षे रचितं, रवीन्द्रनाथटागोरेण 1896 तमे वर्षे प्रथमं गीतं गायतं च। इतिहासे स्मरणीयः दिवसः 24 जनवरी 1950, यस्मिन् भारतस्य संविधानसभया ‘वन्दे मातरम्’ इति गीतं राष्ट्रियगीतत्वेन अनुमोदितम्। अस्य गीतस्य भारतीयस्वाधीनतासंग्रामकाले राष्ट्रियचेतनाजागरणे अतिमहत्त्वपूर्णा भूमिका आसीत्।” समारोहे मन्त्री सुरेशखन्नेन सह भारतीयजनतापक्षस्य प्रदेशकोषाध्यक्षः मनीषकपूरः, विधायकः डॉ. नीलकण्ठतिवारी, विधायकः सौरभश्रीवास्तवः, क्षेत्रीयाध्यक्षः दिलीपपटेलः, महापौरः अशोकतिवारी, पूर्वमहानगराध्यक्षः विद्याराय़ः, महानगरमहामन्त्री जगदीशत्रिपाठी च अन्ये च अनेकाः पदाधिकरिणः तथा महिला कार्यकर्तारः सम्मिल्य सामूहिकरूपेण “वन्दे मातरम्” गीतं गीतवन्तः। अस्मिन् अवसरे पारम्परिकवेशभूषायुक्तानि सहस्रशः जनानि उपस्थितानि आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani