वाराणसी: रेलवेपरिषदोऽध्यक्षो मुख्य कार्यकारी च वाराणसीस्थानकस्य कृतवन्तौ निरीक्षणम्
—वाराणसीजंक्शनतः रोप-वे स्थानकं यावत् गामकमार्गस्य अपि अवलोकितम् वाराणसी, 07 नवम्बरमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्वागताय वाराणसीं आगतः रेलपथमण्डलस्य अध्यक्षः मुख्यकार्यपालिकाधिकारी च सतीषकुमारनामधेयः शुक्रवासरस्य सायंकाले वाराणसीसं
निरीक्षण करते चेयरमैन रेलवे बोर्ड


—वाराणसीजंक्शनतः रोप-वे स्थानकं यावत् गामकमार्गस्य अपि अवलोकितम्

वाराणसी, 07 नवम्बरमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्वागताय वाराणसीं आगतः रेलपथमण्डलस्य अध्यक्षः मुख्यकार्यपालिकाधिकारी च सतीषकुमारनामधेयः शुक्रवासरस्य सायंकाले वाराणसीसंयोगस्थानकं (कैंट्) निरीक्ष्य तत्र प्रवर्तमानानां पुनर्विकासकार्यानां समीक्षां कृतवान्।

निरीक्षणकाले सः स्थानकस्य क्रमशः पुनर्विकासकार्याणां, यात्रिसुविधानां विस्तारस्य, स्वच्छतायाः, सुरक्षायाः, सौन्दर्यवर्धनस्य च प्रगतिं पर्यवलोकयत्। अध्यक्षेन रेल्वेअधिकृतान् प्रति अपशिष्टव्यवस्थापनपद्धतिं अधिकं प्रभावशालिनीं कर्तुं, स्वच्छतां पुनर्चक्रणव्यवस्थां च सुदृढां कर्तुं निर्देशाः दत्ताः।

अनन्तरं सतीषकुमारः प्रस्तावितस्य रोपवे स्थानकस्य अपि निरीक्षणं कृत्वा वाराणसीसंयोगस्थानकात् रोपवेस्थानकपर्यन्तं मार्गस्य अवलोकनं च कृतवान्। तेन यात्रिणाम् आवागमनसुगमता, यातायातव्यवस्थापनं, आवश्यकसुधारात्मकउपायान् च विशेषतया आलोकितवान्।

निरीक्षणकाले सः स्थानकस्य परितः स्थितं क्षेत्रं, रेल्वेउपनगरं, कार्यालयभवनानि, फलकमण्डपान् (प्लेटफॉर्म्), उपरिसेतुं (ओवरब्रिज्), एसी प्रतीक्षागृहं च अपि पर्यटितवान्।

अध्यक्षेन अस्मिन्नेव अवसरे उक्तं यत् वाराणसीसंयोगस्थानकं देशस्य अत्यन्तमहत्त्वपूर्णस्थानकानां मध्ये एकं अस्ति, तस्य पुनर्विकासे पारम्परिकसंस्कृतेः आधुनिकतन्त्रज्ञानस्य च यथोचितं संयोजनं सुनिश्चितं क्रियते। अस्माकं लक्ष्यं यात्रिभ्यः विश्वस्तरीयसुविधानां प्रदानेन सेवायाः सर्वोत्तमं मानकं स्थापयितुम्।

अस्मिन् अवसरे उत्तररेलस्य महाप्रबन्धकः अशोककुमारवर्मा, पूर्वोत्तररेलस्य महाप्रबन्धकः उदयबोरवण्करः, लखनऊमण्डलस्य मण्डलरेलप्रबन्धकः सुनीलकुमारवर्मा च, तदन्ये च रेल्वे मुख्यालयस्य लखनऊमण्डलस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार