Enter your Email Address to subscribe to our newsletters

- प्रथमचरणे उत्पन्नां हलचलां दृष्ट्वा, अद्य द्वितीयचरणे निश्चितं करिष्यति बिहारस्य भविष्यम्।
पटना, 08 नवम्बरमासः (हि.स.)। बिहारविधानसभानिर्वाचन–२०२५ मध्ये अधुना नारीणां मतमेव भविष्यं निश्चितं करिष्यति। राज्यस्य अर्धभागं याः महिलाः, ताः प्रथमवारं विशालपद्धत्यां निर्वाचनपरिदृश्ये निर्णायकशक्तिरूपेण उद्भूताः सन्ति। राजनैतिकविश्लेषकाः एतत् “गुप्तमतदाता” (सीक्रेट् वोटर्) इति नवयुगं वर्णयन्ति, यः प्रत्यक्षं निर्वाचनसमीकरणं परिवर्तयति, राजनैतिकदलेषु च तेषां रणनीतिषु महद् प्रभावं स्थापयति। बिहारविधानसभानिर्वाचनस्य प्रथमचरणे दृष्टायां सक्रियतायाम् अधुना नारीमतदाता राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (राजग) महागठबन्धनस्य च उभयोः कृते कुंजीरूपेण परिणताः।
विकासविश्वासयोः विषये नारीमतदाता एव निर्धारयन्ति बिहारस्य भविष्यम्।
निर्वाचनआयोगस्य जनजागरणेन शासनस्य योजनाभिश्च महिलाः अधुना मतप्रक्रियायां पूर्णरूपेण सजगाः सक्रियाश्च जाता। लघुनगरग्रामेषु च स्पष्टं दृश्यते यत् महिलाः केवलं मतं न ददति, अपितु शासनं, विकासं, रोजगारं च विषये स्वसन्देशं प्रेषयन्ति। राजनैतिकविशारदाः वदन्ति— बिहारराज्ये नारीमतदाता अधुना न कस्यचित् पक्षस्य प्रचारनादेन जातीयसमीकरणैः वा प्रभाविताः, किन्तु विकासस्य स्थिरशासनस्य च आधारपर निर्णयं कुर्वन्ति।
स्वरोजगारयोजनाभिः नारीमतदात्रीणां हस्तः सुदृढः जातः
मुख्यमन्त्रिणा नितीशकुमारणां केन्द्रनेतृत्वेन च नारीणां कृते दशसहस्ररूप्यकाणि प्रत्यक्षं खातेषु समर्पितानि यत् ताः स्वरोजगारं आरभन्ताम्। ततः सह “कर्पूरी ठाकुर किसानसम्माननिधिः” इति योजनायाः अन्तर्गते कृषकानां प्रति वर्षं नवसहस्ररूप्यकाणि प्रदातुम् उद्घोषः कृतः — यस्मिन् ६००० रूप्यकाणि “प्रधानमन्त्रीकिसानसम्माननिधेः”, ३००० रूप्यकाणि “कर्पूरी ठाकुर किसानसम्माननिधेः” अन्तर्गतानि। इदानीं पर्यन्तं केवलं ६००० रूप्यकाणि एव प्रधानमन्त्रिकिसानसम्माननिधेः अन्तर्गतं प्राप्यन्ते। उज्ज्वला, आयुष्मानभारत, लाडलीबहना, जनधन, प्रधानमन्त्रिआवास इत्यादयः योजनाः नारीणां ग्राम्यपरिवाराणां च आर्थिकसामाजिकस्थितिं सुदृढां कृतवन्तः। तस्य प्रभावः मतदानप्रक्रियायां स्पष्टः अभवत्। नारीणः अधुना केवलं मतं न ददति, अपि तु स्वस्वरं अपि प्रकटयन्ति।
राजनीतिसमीकरणानि परिवर्तयन्ति नार्यः
राजनैतिकविश्लेषकौ चन्द्रमातिवारी लवकुमारमिश्रश्च मन्येते यत् बिहारराज्ये नारीमतदात्रीणां उदयः राजनैतिकदलेषु महदाश्चर्यं चुनौतिः च। राजगं विपक्षमहागठबन्धनं च उभौ अधुना बोधवन्तौ यत् एषा अर्धजनसंख्या केवलं मतप्रदाता न, अपि तु निर्वाचनदिशानिर्धारिका अपि। बिहारराज्ये नारीणां मतं अधुना विश्वासे, विकासे, स्वरोजगारे च आधारितं भविष्यति। एषः निर्वाचनः केवलं सत्तासंघर्षस्य न, अपि तु जनता–विकासयोः प्रति सजगनारीमतदात्रीणां विजयस्य प्रतीकः अभवत्।
प्रथमचरणे निर्णायकक्रीडकरूपेण उद्भूताः नारीणः
राजनैतिकविश्लेषकाः वदन्ति यत् एषः परिवर्तनः “गुप्तमतदात्रीणां” उद्भवेन सम्भूतः। “गुप्तमतम्” इति न केवलं गुप्तमतदानस्य बोधकं, अपितु तद् नारीणां स्वनिर्णयनस्वातन्त्र्यस्य राजनैतिकबुद्धिमत्त्वस्य च प्रतीकः जातः। प्रथमचरणस्य मतदानप्रक्रियायां बिहारराज्यस्य महिलाः निर्णायकशक्तिरूपेण उद्भूताः। अर्धजनसंख्यायाः “गुप्तमतैः” स्पष्टीकृतं यत् नारीणः अधुना केवलं मतदात्री न, किन्तु नवराजनीतिकशक्तिरूपेण प्रतिष्ठिताः।
-------------
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}
हिन्दुस्थान समाचार / अंशु गुप्ता