Enter your Email Address to subscribe to our newsletters

भाेपालम्, 8 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता तथा पूर्व-उपप्रधानमन्त्री लालकृष्णः आडवाणी अद्य शनिवासरे स्वस्य अष्टानवतितमं जन्मदिनं आचरति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डा॰ मोहनः यादवः तस्मै जन्मदिन-शुभकामनाः दत्त्वा तस्य उत्तम-स्वास्थ्याय प्रार्थनाम् अकरोत्।
मुख्यमन्त्री डा॰ यादवः स्वस्य सामाजिक-माध्यमे एक्स् इत्यस्मिन् प्रकाशिते शुभकामना-सन्देशे लिखितवान् —“अस्माकं सर्वेषां मार्गदर्शकः, पूर्व-उपप्रधानमन्त्री, @BJP4India इत्यस्य पूर्व-राष्ट्रियाध्यक्षः, भारतरत्न-सम्मानितः परमादरणीयः लालकृष्णः आडवाणी जी इत्यस्मै जन्मदिनस्य हार्दिक-बधाईः शुभकामनाश्च।
माता-भारत्याः सेवायां संगठनाय च समर्पितं भवतः जीवनं सर्वेषां प्रेरणास्पदं अस्ति।
ईश्वरः भवतः शतायुः उत्तमं स्वास्थ्यं च ददातु, इति मम मंगलकामनाः।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता