Enter your Email Address to subscribe to our newsletters

कोयम्बटूरम्, 08 नवम्बरमासः (हि.स.)। जनजनं प्रति संस्कृतभाषां नेतुं “गृहं गृहं प्रति संस्कृतम्” इति उद्देशं साकारयन्ती “संस्कृतभारती” नाम संस्था तमिळनाडुराज्ये कोयम्बटूरनगरस्थे अमृतविश्वविद्यापीठे स्वस्य अखिलभारतीय-अधिवेशनं अयोजितवती। अधिवेशनस्य द्वितीये दिने क्रीडोत्सवेन सह सत्राणाम् आरम्भः अभवत्। प्रथमसत्रे क्षेत्रीयस्तरे वृत्तकथनानि च अभवन्, तत्रैव नूतनस्य अखिलभारतीयाध्यक्षस्य अपि घोषणा कृता।
लालबहादुरशास्त्री-केंद्रीयसंस्कृतविश्वविद्यालयस्य (नवदिल्ली) पूर्वकुलपतिः डॉ॰ रमेशकुमारपाण्डेय इति संस्थायाः अखिलभारतीयाध्यक्षपदे नियुक्तः अभवत्। तत्र आदेशात् आगतैः प्रतिनिधिभिः कार्यकर्तृभिश्च तेषां हार्दं स्वागतं कृतम्। डॉ॰ रमेशकुमारपाण्डेय उपर्युक्तः उत्तरप्रदेशराज्यस्य जौनपुरजनपदनिवासी अस्ति। सः देशस्य प्रमुखसंस्कृतविदुषां मध्ये गणनीयः अस्ति। सः त्रिंशदधिकवर्षाणि संस्कृतभाषा-साहित्य-शिक्षणक्षेत्रेषु सक्रियः आसीत्। तेन केवलम् अध्यापन-अनुसन्धानयोः एव न, किन्तु प्रतिष्ठितेषु शिक्षणसंस्थासु नेतृत्वमूलकं कार्यं अपि कृतम्।संस्कृतभारत्याम् एतत् नेतृत्वपरिवर्तनं संस्थायाः कृते नवदिशां नूतनदृष्टिं च सूचयति इति मन्यते। डॉ॰ पाण्डेयस्य मार्गदर्शने अपेक्ष्यते यत् संस्था पारम्परिकसंस्कृताध्ययनं आधुनिकयुगस्य आवश्यकताभिः संयोज्य भाषां जनजनं प्रति नेष्यति। विशेषतः डिजिटलीयमाध्यमैः, संभाषणशिबिरैः, जनजागरणकार्यानि च समारभ्य संस्कृतं जीवनभाषारूपेण प्रतिष्ठापयितुं प्रयत्नं करिष्यति।
पूर्वं अस्य संस्थायाः नेतृत्वं प्रोफेसरगोपबन्धुमिश्रः अकरोत्, यः सोमनाथसंस्कृतविश्वविद्यालयस्य (गुजरात) कुलपतिः अपि आसीत्। तस्य कार्यकाले संस्कृतभारत्याः राष्ट्रीयस्तरे अनेकाः प्रभावशालीआयोजनानि, संवादशिबिराणि, अन्तर्राष्ट्राष्ट्रियकार्यक्रमाश्च सम्पन्नाः आसन्, येन संस्थायाः उपस्थिति सुदृढा अभवत्।
संस्कृतभारत्याः अस्मिन् अधिवेशने डॉ॰ रमेशकुमारपाण्डेयस्य कार्यकर्तृभिः उत्साहेन स्वागतं कृतम्। संस्थायाः सदस्याः मन्यन्ते यत् तस्य नेतृत्वे संस्कृतभारती आगामीवर्षेषु संवादात् समाजपर्यन्तं नूतनयात्राम् आरभ्य, संस्कृतभाषां केवलम् अध्ययनविषयतया न, किन्तु जीवनभाषारूपेण प्रतिष्ठापयिष्यति।
-----------
हिन्दुस्थान समाचार / Dheeraj Maithani