काङ्गडामण्ड्ययोः निशाः श‍िमलातः शीतलतराः, जनजातिप्रदेशेषु जलस्रोतांसि हिमरूपेण परिणेतुम् आरब्धम्।
श‍िमला , 08 नवम्बरमासः (हि.स.)। हिमाचलप्रदेशे दिवसे सूर्यप्रकाशेन वातावरणं सुशोभायमानं जातम्, किन्तु प्रातःकाले, सायं काले निशासमये च शीतलता निरन्तरं वर्धते स्म। प्रदेशस्य अनेकेषु भागेषु अधुना रात्रयः अतीव शीतलाः भवन्ति। वातावरण-विभागस्य कथनुसारम्
शिमला में धूप


श‍िमला , 08 नवम्बरमासः (हि.स.)। हिमाचलप्रदेशे दिवसे सूर्यप्रकाशेन वातावरणं सुशोभायमानं जातम्, किन्तु प्रातःकाले, सायं काले निशासमये च शीतलता निरन्तरं वर्धते स्म। प्रदेशस्य अनेकेषु भागेषु अधुना रात्रयः अतीव शीतलाः भवन्ति। वातावरण-विभागस्य कथनुसारम् आगामि 14 नवम्बरपर्यन्तं सर्वत्र आकाशः निर्मल। एव भविष्यति, वर्षा वा हिमपातः कश्चन न सम्भाव्यते।

शनिवासरे हिमाचलप्रदेशस्य औसतं न्यूनतमतापमानं सामान्यात् अधः आसीत्। औसते तापमाने 0.3 अंशपर्यन्तं पतनं दृष्टम्। पर्वतीयजनजातिप्रदेशेषु तीव्रा शीतलता व्याप्नोति। लाहौल–स्पीति–किन्नौर–चम्बायाः पाङ्गीप्रदेशेषु न्यूनतमतापमानं शून्यात् अधः गतं। लाहौल–स्पीति–जनपदस्य कुकुमसेर्यां –2.9 अंश, ताबोमध्ये –2 अंश, केलङ्गे –2 अंश सेल्सियस्तापमानं लिप्तम्। एतेषु प्रदेशेषु प्राकृतिकजलस्रोताः जमितुं प्रारब्धवन्तः, झरषु हिमपटलं दृश्यते। मनाली–केलङ्ग–लेहमार्गे अपि हिमसंचये कृते मार्गे फिसलनं वर्धितम्।

अधः प्रदेशेषु अपि रात्रेः तापमानं पतितम्। काङ्गडामण्ड्योर् निशाः इदानीं राजधानीश‍िमलातः अपि शीतलतराः। वातावरण-विभागस्य अनुसारं शुक्रवाररात्रेः शनिवासरप्रभातपर्यन्तं श‍िमलायां न्यूनतमतापमानं 9 अंशसेल्सियस आसीत्, काङ्गडायां 8.6अंशं, मण्ड्यां 9.1 अंशं च। पालमपुर–सोलन–सुन्दरनगरप्रदेशाः अपि श‍िमलातः शीतलतराः, यत्र न्यूनतमतापमानं क्रमशः 7, 7.5, 8.5 अंशं च लिप्तम्। हमीरपुरे अपि शीतलतायाः प्रभावः वर्धितः, तत्र न्यूनतमतापमानं 9.2 अंशं दृष्टम्।

अन्येषु प्रमुखनगरप्रदेशेषु अपि पारः निरन्तरं अधः पतति। भुन्तर्यां न्यूनतमं तापमानं 6.1, कल्पायां 1.5, धर्मशालायां 9.8, मनाल्यां 4.1, कुफ़र्यां 8.1, नारकण्डायां 6, रिकाङ्गपियौ 4.5, बजुवारायां 6, ऊणायां 11.4, नाहन्यां 11.6, बिलासपुरे 12.9 अंशसेल्सियस लिप्तम्।

वातावरण-विभागः उक्तवान् यत् सम्प्रति सर्वत्र प्रदेशे आकाशः शुष्कः एव स्थास्यति। दिवसे सूर्यप्रकाशेन वातावरणं सुशोभितं भविष्यति, किन्तु निशासमये शीतलता वर्धिष्यते इति सम्भाव्यते। ऊर्ध्वप्रदेशेषु तापमानस्य अधिकं पतनम् अपेक्षितम्। विभागेन जनान् प्रति उपदिष्टं यत् प्रातःकाले रात्रौ च बहिः निर्गच्छन्तः ऊष्णवस्त्राणि धारयन्तु, यतः पर्वतीय-अध-प्रदेशयोः शीतलतायाः प्रभावः अधुना स्पष्टतया दृश्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani