Enter your Email Address to subscribe to our newsletters

राँची, 08 नवम्बरमासः (हि.स.)। मार्गशीर्षकृष्णनवमी-महोत्सवः श्रीराणी सतीमन्दिरे 10 नवम्बरतः 13 नवम्बरपर्यन्तं महोत्सवेनेव आचरिष्यते। 10 नवम्बरे प्रातःकाले 5 वादने जलसञ्चयः, प्रातः 7 वादने गणेशपूजनं ध्वजापूजनं च, अपराह्णे 3 वादने हवनेन सह भविष्यति।11 नवम्बरे प्रातः 10 वादने मन्दिरप्राङ्गणात् भव्यशोभायात्रा निःसारिताऽभविष्यति।12 नवम्बरे प्रातः 7 वादने अखण्डज्योतिः, प्रातः 8:30 वादने मङ्गलापाठः, अपराह्णे 1 वादने सुन्दरकाण्डपाठः, सायं 5 वादने भजनसङ्कीर्तनम्, सायं 7 वादने चुनर्योत्सवः, रात्रौ 11 वादनात् 1वादन पर्यन्तं अष्टमीजागरणं भविष्यति।13 नवम्बरे प्रातः 5 वादनात् मङ्गलारती, भव्यशृङ्गारः, पूजाऽर्चनं च भविष्यति। प्रातः 6 वादनात् छप्पनभोगः, सवामनिभोगश्च विधास्यते। रात्रौ 7 वादनात् नवमीजागरणं, 8 वादने महाआरती, 9 वादने समापनारती च भविष्यति।
महोत्सवसंयोजकः विमलझुनझुनवालानामकः उक्तवान् यत् ये दादीभक्ताः निशानयात्रायाः मङ्गलपाठस्य च आमन्त्रणपत्रम् इच्छन्ति, ते मन्दिरप्राङ्गणे आगत्य तत् प्राप्तुं शक्नुवन्ति। अस्मिन्सम्वत्सरे विशेषरूपेण पश्चिमबङ्गराज्यस्य पुरुलियानगर्यात् सुप्रसिद्धा भजनगायिका शीतलकटारुका नाम्नी राँचीपुर्याम् आगच्छति।सहसंयोजकौ दिनेशटेकरीवाल-राजेशजालाननामकौ शनिवासरे एतां वार्तां निवेदितवन्तौ।
हिन्दुस्थान समाचार / Dheeraj Maithani