Enter your Email Address to subscribe to our newsletters

नवदेहली, 08 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य सायं प्रायः पञ्चवादने भारतस्य उच्चतमन्यायालये “विधि-सहायता-वितरण-तन्त्रं सशक्तं कर्तुम्” इत्यस्मिन् विषयेन राष्ट्रियसम्मेलनस्य उद्घाटनं करिष्यन्ति। तस्मिन् अवसरे एव सःर ष्ट्रिय-विधि-सेवा-प्राधिकरणस्य सामुदायिक-मध्यस्थताप्रशिक्षणप्रारूपस्य शुभारम्भम् अपि करिष्यन्ति। एतत् सूचना अधिकृत-विज्ञप्त्या प्रदत्तम्।
विज्ञप्तेः अनुसारम्, तदनन्तरं प्रधानमन्त्रिणः भाषणं भविष्यति। राष्ट्रिय-विधि-सेवा-प्राधिकरणस्य तत्वावधाने आयोजिते द्विदिवसीये सम्मेलनमध्ये विधि-सेवा-संरचनायाः मुख्यपहलूनि, यथा विधि-सहायता-प्रतिरक्षा-परामर्श-प्रणाली, पैनल-अधिवक्ता, अर्ध-विधि-स्वयंसेवक, स्थायी-लोक-अदालताः च विधि-सेवा-संस्थानानां वित्त-प्रबन्धनम् — इत्यादीनि विषयानि विचारार्थं प्रस्तुतानि भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता