Enter your Email Address to subscribe to our newsletters

नवदेहली, ८ नवम्बरमासः (हि.स.)। उपराष्ट्रपतिना सी.पी. राधाकृष्णनेन उक्तं यत् जैनधर्मस्य अहिंसा, सत्य, अपरिग्रह, अनेकान्तवाद इत्यादयः सिद्धान्ताः भारतस्य संस्कृतेः आत्मा एव सन्ति, ये न केवलं महात्मागान्धेः प्रेरणास्रोतांसि अभवन्, अपितु अद्यापि वैश्विकशान्तेः मानवतायाश्च मार्गदर्शनं ददति।
उपराष्ट्रपतिः शनिवासरे नवीदिल्लीस्थिते विज्ञानभवने जैनाचार्यहंसरत्नसूरिश्वरजीमहाराजस्य अष्टमशत-अशीतितम-उपवासपर्णासमारोहे मुख्यातिथिरूपेण सहभागी अभूत्। तेन उक्तं यत् — जैनधर्मस्य शाकाहारः, करुणा, संयम-आधारितजीवनशैली अद्य विश्वे पर्यावरणसंरक्षणस्य प्रतीकत्वेन प्रसिद्धा जाता। स्वानुभवान् प्रकाशितवान्, यत् काशीयात्रानन्तरं पञ्चविंशतिवर्षपूर्वं तेन शाकाहारः अपनतः, यस्मात् तस्य अन्तःकरणे विनम्रता सर्वजीवेषु च प्रेमभावना विकसिताभूत्।
राधाकृष्णनेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सञ्चालितसरकारस्य तान् प्रयत्नान् प्रशंसितवन्तः येन प्राकृतभाषायाः शास्त्रीयभाषारूपेण मान्यता दत्ता, तथा च ‘ज्ञानभारतं मिशन’ इत्यनेन माध्यमेन जैनपाण्डुलिपीनां संरक्षणकार्यं प्रवर्त्यते इति। तेन तमिळनाडुराज्ये जैनधर्मस्य ऐतिहासिकसन्निधेः तमिळसाहित्ये च तस्य गाढप्रभावस्य उल्लेखः कृतः। तेन उक्तम् — “शिलप्पथिकारम्”, “पेरुंगथै”, “तिरुक्कुरल्” इत्यादयः रचनाः जैनदर्शनस्य भावना एव प्रकाशयन्ति।”
उपराष्ट्रपतिना आचार्यहंसरत्नसूरिश्वरजीमहाराजस्य “सेव कल्चर, सेव फैमिली, बिल्ड नेशन” (संस्कृतिं पालय, कुलं रक्ष, राष्ट्रं निर्मास्व) इति अभियानस्य प्रशंसा कृता। तेन उक्तं यत् एषः अभियानः समाजं मूल्यानां, परिवारस्य, राष्ट्रनिर्माणस्य च दिशायां प्रेरयति इति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani