रीवा–एकं जनपदम् एकः उत्पादः तथा निर्यातप्रोत्साहनकार्यशाला अद्य आयोज्यते
रीवा, 08 नवंबरमासः (हि.स.)। मध्यप्रदेश औद्योगिकविकासनिगमस्य तत्वावधानेन अद्य शनिवासरे द्वादशवादनात् आरभ्य ईकोपार्क्-रीवा इत्यस्मिन् स्थले “एकं जनपदं एकः उत्पादः” इत्यस्मिन् विषयेन सह“निर्यातप्रोत्साहनकार्यशाला” आयोजनं कृतम् अस्ति। कार्यशालायां उपमु
उप मुख्यमंत्री राजेन्द्र शुक्ल


रीवा, 08 नवंबरमासः (हि.स.)। मध्यप्रदेश औद्योगिकविकासनिगमस्य तत्वावधानेन अद्य शनिवासरे द्वादशवादनात् आरभ्य ईकोपार्क्-रीवा इत्यस्मिन् स्थले “एकं जनपदं एकः उत्पादः” इत्यस्मिन् विषयेन सह“निर्यातप्रोत्साहनकार्यशाला” आयोजनं कृतम् अस्ति। कार्यशालायां उपमुख्यमंत्री राजेन्द्रः शुक्लः मुख्यातिथिरूपेण उपस्थितः भविष्यति। अस्मिन् अवसरि असमराज्यस्य प्रसिद्धा “बांस्-लेडी” इति ख्याताऽन्तरराष्ट्रीयस्तरे बांसाधारितउद्यमितायाः प्रवर्तिका नीरमोनी शर्मा अपि सन्निहिता भविष्यति।

एम्.पी.आई.डी.सी. इत्यस्य कार्यकारीसंचालकः यू.के. तिवारी इत्यनेन उक्तं यत् कार्यशालायां “स्थानीयात् वैश्विकम्” इति दिशायाम् कला, कृषि, प्रकृति च परंपरा च एतानि वैश्विकव्यापारस्य गत्या संयोज्य आत्मनिर्भरता, उद्यमिता, ग्राम्यअर्थव्यवस्था च नूतनां दिशां प्राप्स्यन्ति। इच्छुकाः प्रतिभागिनः कार्यशालायां सहभागित्वं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता