विशेषगहनपुनरीक्षणम् — राजस्थानराज्ये एककोट्यधिकेभ्यः जनानां गणनापत्राणि प्रदत्तानि।
जयपुरम्, 08 नवम्बरमासः (हि.स.)। राजस्थानराज्ये विशेषगहनपुनरीक्षणकार्यं २०२६ तीव्रगत्या प्रवर्तते। अस्य प्रक्रियायाः अन्तर्गतं बी.एल्.ओ. कर्मिणः गृहे गृहे गत्वा गणनापत्राणां वितरणं कुर्वन्ति। अद्यावधि राज्यस्य विविधानि जनपदानि एककोट्यधिकानां मतदात
विशेष गहन पुनरीक्षण


जयपुरम्, 08 नवम्बरमासः (हि.स.)। राजस्थानराज्ये विशेषगहनपुनरीक्षणकार्यं २०२६ तीव्रगत्या प्रवर्तते। अस्य प्रक्रियायाः अन्तर्गतं बी.एल्.ओ. कर्मिणः गृहे गृहे गत्वा गणनापत्राणां वितरणं कुर्वन्ति। अद्यावधि राज्यस्य विविधानि जनपदानि एककोट्यधिकानां मतदातॄणां मध्ये गणनापत्राणि वितरितानि सन्ति। गणनापत्रवितरणे बाडमेर–चित्तौड़गढ़–बांसवाडा इत्येतानि जनपदानि प्रथमतृतीयस्थानानि धारयन्ति। गृहगृहसर्वेक्षणं चतुर्थनवम्बरदिनाङ्कात् आरभ्य चतुर्थदिसम्बदिनाङ्कात्रपर्यन्तं प्रवर्तिष्यते।

राज्यस्य मुख्यनिर्वाचनाधिकारी नवीनमहाजन इत्यनेन उक्तम्— अस्य प्रक्रियायाः अन्तर्गतं बी.एल्.ओ. इत्येभ्यः प्रशिक्षणं दत्वा तान् गृहगृहगमनं सत्यापनं च गणनापत्रवितरणसङ्कलनकार्यं च कर्तुं नियोजितवन्तः। मतदातॄणां प्रति गणनापत्रं सुलभतया उपलब्धं कर्तुं, निर्वाचनयन्त्रणायाः कर्मठतां मनोबलं च संवर्धयितुं च राज्यस्य सर्वेषु जनपदेषु जनपदनिर्वाचनाधिकारी, ई.आर्.ओ., ए.ई.आर्.ओ. इत्यादयः स्वयमेव क्षेत्रभ्रमणं कुर्वन्ति। ते बी.एल्.ओ. सह गृहे गृहे गत्वा गणनापत्रवितरणं कुर्वन्ति, तेषां कार्याणां निरीक्षणं च कुर्वन्ति, अभियानस्य प्रगतेः निग्रहीकरणं च।

विशेषगहनपुनरीक्षणाभियाने प्रदेशस्य सर्वे राजनीतिकदलाः सक्रियं सहभागं कुर्वन्ति। अद्यावधि एकलक्षाधिकाः मतदाताकेंद्रस्तरीयप्रतिनिधयः (बी.एल्.ए.) नियुक्ताः सन्ति, ये प्रत्येकमतदानकेन्द्रे मतदातृसूच्याः सत्यापनकार्ये प्रवृत्ताः सन्ति। सर्वे राजनीतिकदलाः निरन्तरं अधिकान् बी.एल्.ए. नियुक्तुं प्रयतन्ते, यतः मतदातृसूच्याः शुद्धता सुनिश्चितुं शक्यते।

भारतनिर्वाचनायोगेन सर्वान् मान्यतान् राजनीतिकदलान् उपदिष्टम् यत्, समये एव प्रत्येकमतदानकेन्द्रे स्वीयान् बी.एल्.ए. नियुक्तयन्तु, येन पश्चात् मतदातृसूच्यां दोषानां विषये परिवेदनस्य आवश्यकता न भवेत्। आयोगस्य स्पष्टं मतं यत्, सम्यक् समये सहभागित्वेन एव लोकतान्त्रिकप्रक्रियायाः विश्वसनीयता स्थितुं शक्यते।

राज्यस्य मुख्यनिर्वाचनाधिकारिणा प्रत्येकं मतदातारं प्रति निवेदनं कृतम् यत्, ते लोकतान्त्रिकप्रक्रियां सशक्तां कर्तुं सक्रियं सहभागित्वं कुर्वन्तु। सः सर्वान् पात्रनागरिकान् प्रति आग्रहं कृतवान् यत्, समये एव स्वं गणनापत्रं पूरयन्तु, सत्यापनं सुनिश्चितयन्तु, अस्य ऐतिहासिकस्य पुनरीक्षणप्रक्रियायाः भागिनः भवन्तु। कस्यापि प्रकारस्य सूचना–सहाय्ययोः कृते सम्पर्कसूत्रम् १९५० इत्यस्य उपयोक्तुं शक्यते। स्वीय–बी.एल्.ओ.–संपर्कार्थं च https://voters.eci.gov.in

इत्यस्मात् जालपुटात् “बुक् अ कॉल् विथ् बी.एल्.ओ.” इत्याख्यया सुविधायाः उपयोगं कर्तुं शक्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani