Enter your Email Address to subscribe to our newsletters

– ज्वालादेवी उच्चमाध्यमिकमहाविद्यालये सप्तशक्तिसंगमः कार्यक्रमः।
प्रयागराजः ०८ नवम्बरमासः (हि.स.)। विद्याभारती-संबद्धे ज्वालादेवी सरस्वती-विद्यामन्दिरे उच्चमाध्यमिकमहाविद्यालये नागरिकरेखा-प्रदेशे शनिवासरे “सप्तशक्ति-संगमः” एकः प्रेरणादायकः महत्वपूर्णः च कार्यक्रमः सम्पन्नः।अस्य मुख्यं प्रयोजनं आसीत् — समाजं जागरयन्तः चत्वारः प्रमुखाः स्तम्भाः — भारतीय-संस्कृतिः, कुटुम्ब-प्रबोधनं, पर्यावरण-रक्षणम्, नारीणां सशक्त-भूमिका च — एतेषां विषये गम्भीरं चिन्तनमननं च कर्तुम्।
मुख्यातिथिः ज्वालादेवी-सिविल-लाइन्स्-प्रबन्धसमितेः सदस्याः श्रीमती ऊषा-मिश्रा स्व-उद्बोधने बालकान् अभिभावकांश्च भारतीय-मूल्येषु जागरूकान् अकुर्वन्। सा अवदत् यत् एते मूल्याः दैनिकजीवने अनुकरणीयाः, तेषां पालनं मानवजीवनस्य उन्नतेः हेतुर्भवति।
विशिष्ट-वक्ता आर्य-कन्या-डिग्रीकॉलेज इत्यस्य सह-प्राध्यापिका डॉ. श्रुति-आनन्दा विशेषतः “कुटुम्ब-प्रबोधनं” तथा “भारतीय-संस्कृतिः” इत्येतयोः विषये उक्तवती —
“परिवारः एव समाजस्य प्रथमः पाठशाला अस्ति, यत्र बालकानां नीतिमूल्यानि मानवीयानि च संस्कारा बीजस्वरूपेण आरोप्यन्ते।”सा भारतीय-संस्कृतेः सार्वभौमिकतां वैज्ञानिकदृष्टिं च प्रशंसयामास।
कटरानिवासिनी सभासद् श्रीमती मोनिका अग्रवालः “नारीणां सशक्तभूमिका” तथा “पर्यावरणरक्षणं” इत्येतयोः विषये भाषमाणा अवदत् यत्,आधुनिके युगे नारीशक्तेः योगदानं अपरिहार्यमस्ति। सशक्ता नारी गृहं समाजं राष्ट्रं च नवदिशां प्रदातुम् अर्हति।पर्यावरणरक्षणविषये सा छात्रान् प्रेरयामास — यथा नित्यजीवने लघुप्रयत्नैः, यथा जलसंरक्षणेन वृक्षारोपणेन च, प्रकृतेः रक्षा करणीयेति।
ततः पूर्वं विद्यालयस्य प्रधानाचार्यः श्री विक्रम-बहादुर-सिंह-परिहारः कार्यक्रमस्य आरम्भे विस्तृतां प्रस्तावनां प्रस्तुतवान्।सः अवदत् — अद्यतनसामाजिकपरिप्रेक्ष्ये एते विषयाः अत्यन्तं प्रासङ्गिकाः। एता एव चत्वारः शक्तयः दृढस्य समृद्धस्य राष्ट्रस्य स्तम्भं अधिष्ठापयन्ति।सः उक्तवान् — “शिक्षा केवलं पुस्तकज्ञानपर्यन्ता नास्ति, किं तु संस्कारसंस्कृति-सामाजिकदायित्वभावनायाः संवर्धनं अपि तस्या अविभाज्यं अङ्गम्।”
सप्तशक्ति-संगमः कार्यक्रमः केवलं सभा नासीत्, अपितु सः “वैचारिक-महाकुम्भः” अभवत्,यत्र उपस्थिताः सर्वे अपि स्वसंस्कृतेः प्रति दायित्वं बोधयामासुः, कुटुम्बे सौहार्दं सत्संस्कारांश्च पोषयितुं,प्रकृतेः प्रति उत्तरदायित्वं वहन्तुं च प्रेरिताः अभवन्।अस्मिन् कार्यक्रमे मातृणां भगिनीनां च द्विशताधिकाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani