Enter your Email Address to subscribe to our newsletters

जयपुरम्, 8 नवंबरमासः (हि.स.)।उत्तरभारते पर्वतीयराज्यानि यथा जम्मूकश्मीरलद्दाखहिमाचलप्रदेशउत्तराखण्डप्रदेशेषु जातायां हिमवृष्टौ तस्य प्रभावः अधुना राजस्थानप्रदेशेऽपि दृश्यते। राज्ये गतयोः द्वयोः दिनेभ्यः तापमानं दश डिग्रीसेल्सियसपर्यन्तं अधः पतितम्।
शुक्रवासरे प्रदेशस्य पञ्चसु नगरसु न्यूनतमतापमानं एकाङ्कसंख्यायाम् आसीत्। नागौरजयपुरअजमेरउदयपुरादिषु नगरेषु ऋतौ एषा अतिशीतला रात्रिः अभवत्। जयपुरस्थितवातावरणकेन्द्रस्य अनुसारं राज्ये आगामसप्ताहपर्यन्तं आकाशः निर्मलः भविष्यति च मौसमः शुष्क एव स्थास्यति।
गतचतुर्विंशतिघण्टाभ्यन्तरे बीकानेरजयपुरजोधपुरअजमेरभरतपुरसंभागेषु प्रभातसंध्याकाले उत्तरदिशागतवातानां प्रभावः अधिकः आसीत्। नागौरनाम नगरं सर्वाधिकं शीतलम् आसीत् यत्र न्यूनतमतापमानं षड्विन्दु सप्त डिग्रीसेल्सियस मापितम्। अजमेरेऽपि ऋतौ अतिशीतला रात्रिः अभवत् यत्र तापमानं अष्टविन्दु द्वि डिग्रीसेल्सियसपर्यन्तं पतितम्। उत्तरपश्चिमदिशागतानां वातानां प्रभावेन राजस्थानप्रदेशे आकाशं सम्यक् निर्मलम् अभवत्। प्रदूषणस्य स्तरः अपि पतितः तेन मौसमः मनोहरः जातः। प्रभाते एव दीप्तसूर्यप्रकाशः आसीत् दिवसतापमाने च लघुवृद्धिः अभवत्।
बाडमेरनगरे अधिकतमतापमानं चतुस्त्रिंशद्विन्दु एक डिग्रीसेल्सियस, जैसलमेरे त्रिंशद्विन्दु त्रि, फलोद्यां एकत्रिंशद्विन्दु अष्ट, बीकानेरे त्रिंशद्विन्दु अष्ट, जोधपुरे त्रिंशद्विन्दु षट्, पिलान्यां त्रिंशद्विन्दु पञ्च, टोंके त्रिंशद्विन्दु एक डिग्रीसेल्सियस आसीत्। शेषेषु बहुषु नगरेषु अधिकतमतापमानं त्रिंशद्दिग्रीसेल्सियसात् न्यूनम् आसीत्।
वातावरणविशेषज्ञानां मतानुसारं आगामिदिवसेषु रात्रौ तापमानं अधः पतिष्यति, तेन शीतलता अधिका भविष्यतीति सम्भावना अस्ति।
हिन्दुस्थान समाचार