Enter your Email Address to subscribe to our newsletters

रांची, 8 नवंबरमासः (हि.स.)।सेंट्रलकोलफील्ड्सलिमिटेड् (सीसीएल्) संस्थायां आयोजिते द्विदिवसीये “सतर्कतामहोत्सवे–2025” इत्यस्य अन्तिमदिने शनिवासरे विविधविद्यालय–महाविद्यालय–विश्वविद्यालयेभ्यः आगताः छात्रछात्रिकाः विभिन्नासु प्रतियोगितासु सहभागिनः अभवन्।
अन्तिमदिने मुखचित्ररचना (फेस् पेन्टिंग्) एकलगीतगायन (सोलो सॉन्ग) इत्येतयोः प्रतियोगितयोः आयोजनं कृतम्। अस्यां स्पर्धायां विभिन्नविद्यालयमहाविद्यालयेभ्यः आगताः प्रतिभागिनः बहुसंख्येन सम्मिलित्य स्वकलेः प्रतिभायाः च प्रदर्शनं कृतवन्तः। देशभक्तिगीतगायनेन ते देशप्रेमं प्रतिभां च प्रकटितवन्तः, मुखे कलारूपं अंकयित्वा सत्यनिष्ठायाः सन्देशं च दत्तवन्तः।
समापनसमारोहे मुख्यातिथिरूपेण उपस्थितः सीवीओ पंकजकुमारः अवदत् यत् सीसीएल् संस्थायां स्थानीयबालकबालिकेभ्यः मंचं साहसं च दातुं अस्माकं प्रयत्नः अस्ति। प्रत्येकपीढ्याः कर्तव्यम् अस्ति यत् आगामिनीं पीढीं प्रति अधिकं शुद्धं उत्तमं च वातावरणं प्रदद्यात्। तेन उक्तं यत् अस्माकं उद्देश्यं एतदेव यत् भवद्भिः सर्वैः माध्यमेन सतर्कतायाः सन्देशः जनजनं प्रति सम्प्रेष्यते।
अस्मिन् समापनसमारोहे आयोजितायां जीवन्तचित्रशालायां (लाइव पेन्टिंग् वर्कशॉप्) विभिन्नराज्येभ्यः आगताः कलाकाराः सम्मानिताः अभवन्। तदनन्तरं रंगोली–मुखचित्र–मार्गचित्र (स्ट्रीट पेन्टिंग्)–एकलगीतस्पर्धायाः विजेतृभ्यः प्रमाणपत्राणि, पदकानि, ट्रॉफी च प्रदानानि।
---------------
हिन्दुस्थान समाचार