Enter your Email Address to subscribe to our newsletters

नवदेहली, 9 नवम्बरमास: (हि.स.)।भारतीयः लक्ष्यवेधी अर्जुनबाबूता इत्याख्यः काहिरानगरे प्रवर्तमानायां अन्तरराष्ट्रीयलक्ष्यवेधकक्रीडामहा-संघस्य (अन्तरराष्ट्रीयलक्ष्यवेधकविश्वविजेता - स्पर्धायाम्) राइफल्–करधनुष्–पिस्टल् विभागे प्रथमदिने पुरुषाणां दशमीटरवायुराइफल्–स्पर्धायाः अन्तिमप्रतियोगितायां सप्तमं स्थानम् प्राप्तवान्। अर्जुनः अर्हताचरणे (पूर्वचरणे) ६३२.५ अङ्कैः सह अन्तिमस्पर्धायां प्रविष्टः, परन्तु अन्तिमस्पर्धायाम् १४५.० अङ्कान् संगृह्य सप्तमं स्थानम् एव प्राप्नोत्।
अस्यां स्पर्धायाम् जर्मनीदेशीयः मैक्षिमिलियन् डैलिङ्गरः स्वर्णपदकम्, स्वीडनदेशीयः वर्तमानविश्वविजेता विक्टरः लिण्ड्ग्रेनः रजतपदकम्, तथा चीनदेशीयः ओलम्पिकविजेता शेंग् लियाओः कांस्यपदकम् अलभत। अर्जुनः अन्तिमस्पर्धायाः आरम्भे प्रथमश्रेण्यां ५१.९ (१०.६, ९.८, १०.६, १०.५, १०.४) अङ्कान्, द्वितीयश्रेण्यां ५२.३ (१०.६, १०.१, १०.७, १०.२, १०.७) अङ्कान् संगृह्य उत्तमं प्रदर्शनं कृतवान्। किन्तु एकादशे वेधने (शरे) ९.७ इति न्यूनफलम् प्राप्तं, येन तस्य स्थानं अधः पतितं, सः च द्वितीयः प्रतियोगी इव स्पर्धातः बहिर्गतः।
एतेनैव समयेन पुरुषाणां पञ्चविंशतिमीटर–शीघ्रवेधन–
करधनुष्–स्पर्धायाम् (२५ मीटर रैपिड्–फायर्–पिस्टल्–स्पर्धायाम्) भारतस्य अनिशः भंवालः २९१–११x इति उत्कृष्टं फलं प्राप्तवान्, येन सः प्रथमचरणस्य अनन्तरं सप्तमे स्थाने स्थितः। तथैव समीरः गुलियः २८६–३x, आदर्शः सिंहः २८५–८x अङ्कान् प्राप्तवन्तौ।
अस्याः स्पर्धायाः द्वितीयः चरणः तथा अन्तिमप्रतियोगिता श्वः भविष्यति, यस्मिन् श्रेष्ठाः षट् लक्ष्यवेधकाः अन्तिमचरणे पात्रतां प्राप्स्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता