Enter your Email Address to subscribe to our newsletters

पटना, 9 दिनांकः नवम्बरमास: (हि.स.)। बिहारराज्यस्य विधानसभानिर्वाचनस्य प्रचारस्य अन्त्यदिने, रविवासरे, सर्वे राजनैतिकदिग्गजाः दलाश्च स्वसम्पूर्णशक्तिं प्रयोजयिष्यन्ति।
द्वितीयचरणस्य निर्वाचनार्थम् एकादशे नवम्बरमासे मतदानम् भविष्यति। तस्मात् अद्य सायं निर्वाचनप्रचारः निवर्तिष्यते।द्वितीयचरणे विंशतिजनपदानां १२२ विधानसभामण्डलेषु मतदानं भविष्यति।
समग्रे २४३ आसनयुक्ते बिहारविधानसभानिर्वाचने मुख्यः स्पर्धा राजग–गठबन्धनस्य च विपक्षगठबन्धनस्य च मध्ये दृश्यते।
तथापि जनसुराजपक्षः तृतीयबलरूपेण विविधानि आसनानि प्रति उदितः दृश्यते।
चतुर्दशे नवम्बरमासे मतगणना भविष्यति, ततो परिणामाः घोष्यन्ते। द्विचरणात्मकस्य बिहारविधानसभानिर्वाचनस्य अन्त्यचरणस्य मतदानम् एकादशे नवम्बरमासे प्रातः सप्तवादने आरभ्य भविष्यति।
तस्यार्थं प्रचारः अद्य सायं समाप्तः भविष्यति।
अस्मिन् अन्त्यचरणे —
पश्चिम–पूर्वचंपारण-शिवहर- सीतामढी-मधुबनी-सुपौल-अररिया, किशनगंज-पूर्णिया-कटिहार-भागलपुर-बांका-कैमूर-रोहतास-अरवल-जहानाबाद-औरंगाबाद-गया - नवादा-जमुई एतेषां विंशतिजनपदानां १२२ विधानसभाजनपदेषु मतदानं भविष्यति। एतत् कर्तुं ४५,३९९ मतदानकेन्द्राणि निर्मितानि सन्ति। प्रथमचरणे, षष्ठे नवम्बरमासे, १२१ आसनेषु अभूत् ६५.६ प्रतिशतं मतप्रदर्शनम्, यत् अभूत् अभिलेखभङ्गकरम्।
अतः अनुमान्यते यत् द्वितीयचरणेऽपि अधिकसंख्यकाः मतदातारः स्वमताधिकारं प्रयोजयिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता