अयोध्यायां श्रीरामाश्रमगुरुकुले बटूनां सामूहिकः यज्ञोपवीतसंस्कारः सम्पन्नः
हिन्दूनां प्रमुखः संस्कारः अस्ति उपनयनं वा यज्ञोपवीतसंस्कारः। अयोध्या, 9 नवंबरमासः (हि.स.)। अखिलभारतीय–मैथिलीरमण–सेवासंस्थानस्य संचालनाधीनम् श्रीरामाश्रम–अयोध्या–गुरुकुलं मध्ये बटुक–ब्राह्मणानां सामूहिकः यज्ञोपवीत–संस्कारः सम्पन्नः। संस्कारसमये सम
श्रीरामाश्रम अयोध्या गुरुकुलम


हिन्दूनां प्रमुखः संस्कारः अस्ति उपनयनं वा यज्ञोपवीतसंस्कारः।

अयोध्या, 9 नवंबरमासः (हि.स.)। अखिलभारतीय–मैथिलीरमण–सेवासंस्थानस्य संचालनाधीनम् श्रीरामाश्रम–अयोध्या–गुरुकुलं मध्ये बटुक–ब्राह्मणानां सामूहिकः यज्ञोपवीत–संस्कारः सम्पन्नः। संस्कारसमये सम्पूर्णं देवालय–प्राङ्गणं भक्तिभावेन आर्द्रं जातम्। अस्य सामूहिकस्य उपनयन–संस्कारस्य अवसरं श्रीरामाश्रम–रामकोटस्थ–पीठाधीश्वरः श्रीमहन्त–जयरामदास–वेदान्ती–महाराजः स्वस्यानुग्रहेन पावितवान्।

रविवासरस्य प्रातःकाले सर्वप्रथमं देवालये विराजमानं भगवानं मैथिलीरमण–रामं नूतनवस्त्रैः शोभितं कृत्वा दिव्य–भव्यं श्रृङ्गारं कृतवन्तः। ततः परं तस्मै विविधान् पक्वान्नानां नैवेद्यं समर्पितम्। अनन्तरं वैदिक–मन्त्र–उच्चारणेन पूजन–अर्चनं सम्पन्नं कृत्वा भगवानस्य आरती प्रज्वालिता। ततः श्रीरामाश्रम–अयोध्या–गुरुकुले अध्ययनरतानां द्वादश बटुक–ब्राह्मणानां वैदिक–रीतिपूर्वकं, विधि–विधानसंयुक्तं सामूहिकं यज्ञोपवीत–संस्कारं सम्पन्नम्। जनेऊ धारणानन्तरं सर्वे बटुक–ब्राह्मणाः अत्यन्तं हृष्टाः दृष्टाः।

अन्ते महन्त–डॉ॰ जयरामदास–वेदान्तीमहाराजः जनेऊ धारणकर्तॄन् बटून् प्रति एकैकशः मन्त्रदीक्षा दत्त्वा तान् दीक्षितान् अपि कृतवान्। अस्मिन् अवसरः बहुसंख्यकाः बटुक–ब्राह्मणानां परिवारजनाः अपि सानन्दं उपस्थिताः आसन्।

अस्मिन् सन्दर्भे सिद्धपीठ–श्रीरामाश्रम–रामकोटस्य पीठाधिपतिः श्रीमहन्त–डॉ॰ जयरामदासवेदान्तीमहाराजः अवदत् यत् आश्रमे वसतां द्वादश बटुक–ब्राह्मणानां वैदिकरीतिविधानपूर्वकं यज्ञोपवीतसंस्कारः कृतः। सनातनधर्मे जनेऊ–संस्कारस्य अत्यन्तं महत्त्वम् अस्ति। सः हिन्दुधर्मस्य षोडशमुख्यसंस्कातेषु एकः प्रमुखः संस्कारः। अस्य जनेऊ–संस्कारस्य विशेषं स्थानं हिन्दुधर्मे दृश्यते। हिन्दुमान्यतानुसारम् आयुः, बलं, बुद्धिः, सम्पत्तिः च वृद्ध्यर्थं यज्ञोपवीत–धारणं आवश्यकं भवति। अस्य धारणेन कर्तव्यपालनस्य प्रेरणा लभ्यते।उपनयनं वा यज्ञोपवीत–संस्कारः हिन्दूनां प्रमुखः संस्कारः अस्ति, यः प्राचीनकाले बालकस्य गुरुकुलं प्रति गमनस्य सूचकः आसीत्। “उपनयन” इत्यस्य शाब्दिकः अर्थः अस्ति — निकटं नयनम्, अर्थात् गुरोः समीपं नयनम्।

हिन्दुस्थान समाचार / अंशु गुप्ता