धर्मांतरणं विभाजनञ्च राष्ट्राय सङ्कटम् - डॉ. मोहनभागवतः
बेंगलुरुनगरम्, 9 नवंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ० मोहनभागवतः अत्र व्याख्यानमालायां धर्मपरिवर्तनम्‌ तथा राजनीतिकविभाजनम्‌ इति विषये चिन्तां प्रकटयामास। सः अवदत् – “धर्मान्तरणं विभाजनं च राष्ट्रस्य कृते भयजनकौ स्तः। ‘हिन्दवः
Bhagwat


बेंगलुरुनगरम्, 9 नवंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ० मोहनभागवतः अत्र व्याख्यानमालायां धर्मपरिवर्तनम्‌ तथा राजनीतिकविभाजनम्‌ इति विषये चिन्तां प्रकटयामास। सः अवदत् – “धर्मान्तरणं विभाजनं च राष्ट्रस्य कृते भयजनकौ स्तः। ‘हिन्दवः स्वयमेव किमर्थं विभजन्ते?’ राजनीति सम्प्रदायाधारेण जनान् विभजति, किन्तु अस्माभिः एकता अवश्यं रक्षणीया। अस्माकं सनातनसंस्कृतेः बलं एकता च सद्भावनाच।”

संघस्य “संघस्य शतवर्षयात्रा : नवे क्षितिजे” इत्यस्य शृंखलायाः द्वितीये दिने व्याख्यानम्‌ अनेन प्रदत्तम्। एषः व्याख्यानोत्सवः बेंगलुरोर्नगरस्य बनशंकरीप्रदेशे होसाकेरेहल्ली रिङ्गरोडस्थिते पी.ई.एस्. विश्वविद्यालये आयोजितः। व्याख्यानमालायाः द्वितीये दिने अद्य प्रश्नोत्तररूपेण भागवतजी अवदन् — “भारते त्रयः शताब्द्यः पर्यन्तं धर्मान्तरणस्य प्रयासाः जाताः, तथापि वयं अद्यापि हिन्दुस्थान एव स्मः। अस्माकं धर्मः संस्कृति च जीवन्ती स्तः। तयोः संरक्षणं सर्वेषां नागरिकानां दायित्वम्‌ अस्ति।”

भागवतजी उक्तवन्तः यत् सामाजिकैकता आन्तरिकगुणवत्ता च देशस्य विकासस्य, सुरक्षायाः, संस्कृतिसंरक्षणस्य च मूलशक्तिः स्तः। तेन अर्थव्यवस्थायां प्रमुखभूमिका निभवन्तः एम्‌.एस्‌.एम्‌.ई., कॉर्पोरेट्‌क्षेत्रं, कृषिक्षेत्रं स्वरोजगारक्षेत्रं च — एतेषां महत्त्वं निर्दिष्टम्। एते क्षेत्राणि राष्ट्रस्य जी.डी.पी. तथा रोजगारसृजनस्य मेरुदण्डः इति तेन प्रतिपादितम्‌। एतेषां शक्तिः अधिकं दृढीकरणीयाः इति तेन अभिप्रेतम्। भागवतजी इत्यपि उक्तवान् यत् भारतदेशेन परमाण्वीयईन्धनस्य सन्दर्भे थोरियम्‌-अनुसन्धानं उच्चप्राथमिकतायां स्थापनीयम्। यूरेनियमस्य विकल्परूपेण थोरियम्‌-उपयोगे वयं आत्मनिर्भराः। अस्मिन् क्षेत्रे अनुसन्धानाय प्रोत्साहनं दातव्यम्। सः अवदत् — “संघः न सरकार अस्ति, न च राजनीतिकदलं, अतः वयं प्रत्यक्षक्रिया न कर्तुं शक्नुमः, किन्तु जागरूकतायाः निर्माणे, जनमतदबावस्य सृष्टौ च भागं वहामः।” तेन उक्तं यत् संघस्य चिन्तनं स्वदेशीदर्शनस्य अनुरूपं सरकारे समाजे च राष्ट्रीयदृष्टिकोणं सुदृढीकर्तुं प्रवृत्तम्‌ अस्ति।

रोहिंग्याः अपि अवैधप्रवासीजनानां विषये प्रश्नानाम्‌ उत्तरं दत्त्वा भागवतजी अवदन् — “भारतस्य सीमाः असामान्यरीत्या विभक्ताः सन्ति। कतिपये स्थलेषु सीमा अपि विचित्रा, यत्र रसोई बाङ्गलादेशे अस्ति, स्नानगृहं तु भारतदेशे।” मणिपुरसीमाबन्धनस्य स्थानीयविरोधस्य विषये तेन उक्तम् — “सीमाः सम्पूर्णरूपेण सुरक्षिताः कर्तव्या। सर्वकारः अस्मिन् विषयेषु प्रयत्नं करोति, किन्तु स्थानीयसामाजिकतत्त्वानि अपि परिगण्यन्ताम्।”

राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य उपलक्ष्ये आयोजितायां ‘संघस्य शतवर्षयात्रा : नवक्षितिज’ इत्यस्य द्विदिवसीया व्याख्यानमालायां संघस्य सरकार्यवाहः दत्तात्रेयः होसबोले, जिलासंघचालकः डॉ० पी. वामनशेनॉय, कर्नाटकदक्षिणप्रान्तसंघचालकः जी.एस्. उमापति इत्यादयः अपि मंचे उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता