केंद्रीयशिक्षामंत्री धर्मेंद्रप्रधानः उत्तराखंडस्य स्थापनादिवसस्य शुभकामनाः दत्तवान्
भुवनेश्वरः, 9 नवंबरमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानेन देवभूमेः उत्तराखण्डस्य स्थापना-दिवसस्य अवसर्ये प्रदेशवासिभ्यः हार्दिकशुभाशयाः प्रदत्ताः। स्वस्य सामाजिकसञ्जाल-पोस्ट् मध्ये तेन उक्तं यत् हिमालयस्थितया अस्यां पवित्रभूमौ दे
केंद्रीयशिक्षामंत्री धर्मेंद्रप्रधानः उत्तराखंडस्य स्थापनादिवसस्य शुभकामनाः दत्तवान्


भुवनेश्वरः, 9 नवंबरमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानेन देवभूमेः उत्तराखण्डस्य स्थापना-दिवसस्य अवसर्ये प्रदेशवासिभ्यः

हार्दिकशुभाशयाः प्रदत्ताः। स्वस्य सामाजिकसञ्जाल-पोस्ट् मध्ये तेन उक्तं यत् हिमालयस्थितया अस्यां पवित्रभूमौ देशाय संस्कृतेः, साहसस्य, आध्यात्मिकशक्तेः च अद्वितीयसंघटनस्य आशीर्वादः प्रदत्तः अस्ति।

धर्मेन्द्रप्रधानः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदृष्ट्या, मुख्यमन्त्रिणः पुष्करसिंहधामीनः नेतृत्वेन च उत्तराखण्डराज्यं अधुना विकासस्य, सुरक्षा-समृद्ध्योः च नवान् अध्यायान् लिखति। सः आशाम् अभिव्यक्तवान् यत् राज्यं भविष्ये अपि प्रगतेः कल्याणस्य च मार्गे अग्रसरं भविष्यति। बाबा-केदारनाथं प्रति प्रार्थयन् तेन उक्तं यत् एषः दिव्यः पर्वतीयः प्रदेशः सर्वदा शान्तेः, समृद्धेः, जनकल्याणस्य च दिशि निरन्तरं प्रगतिं कुर्वीत।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता