Enter your Email Address to subscribe to our newsletters

— प्रचालन-प्रदर्शने अग्रिमपङ्क्तीनां उपकरणानां समन्वितयुद्धाभ्यासाः प्रदर्श्यन्ते।
नवदेहली, ०९ नवम्बरमासः (हि.स.)। पाकिस्तानदेशेन सह १९७१ तमे युद्धकाले भारतीयनौसेनायाः महत्वपूर्णं योगदानं स्मारयन् नौसेनादिवसः अस्मिन् वर्षे तिरुवनन्तपुरस्य शङ्गुमुघम-सागरतटे ०४ दिसम्बर-मासे आयोजनं भविष्यति। तस्मिन् युद्धे भारतस्य सामुद्रिकसेनया शत्रोः नौसेनां तटीयरक्षणं च दृढं प्रहारं प्राप्तवन्तौ। अस्य वर्षस्य प्रचालन-प्रदर्शनं विकसितसमृद्धभारतस्य निमित्तं समुद्रस्य रक्षणार्थं सज्जं, एकताभूतं, विश्वसनीयं, आत्मनिर्भरं च बलं रूपेण भारतीयनौसेनायाः सामुद्रिक-उत्कृष्टतायाः उत्सवः भविष्यति।
नौसेनादिवसः १९७१ तमस्य भारत–पाकिस्तानयुद्धस्य समये नौसेनायाः महत्वपूर्णं योगदानं स्मारयति, यस्मिन् “ऑपरेशन ट्राइडेन्ट्”अभियानस्य अन्तर्गतं भारतीयनौसेनायाः क्षेपणास्त्र-नौकाभिः कराची-पत्तने साहसिकः आक्रमणः कृतः। एषा निर्णायकक्रिया न केवलं भारतस्य सामुद्रिक-शक्तेः अपि तु तस्याः निश्चितत्वस्य, साहसस्य, रणनीतिज्ञानस्य च प्रकाशः आसीत्। प्रतिवर्षं यथा, अस्मिन् अपि वर्षे भारतीयनौसेनया प्रमुखनौसेनास्थानात् भिन्नदेशस्थले वार्षिकोत्सवः आयोजयितुं निर्णयः कृतः। पूर्वं एते उत्सवाः ओडिशाराज्यस्य पुरी-स्थले, महाराष्ट्रस्य सिंधुदुर्ग-प्रदेशे च आयोजिताः आसन्।
नौसेनायाः नायकः विवेकमधवालस्य मतम्— अस्मिन् कार्यक्रमे नागरिकाः भारतीयनौसेनायाः बहुविधक्षेत्रीयकार्यानां विभिन्नपक्षान् अवलोकयितुं दुर्लभं अवसरं प्राप्स्यन्ति। तिरुवनन्तपुरस्य शङ्गुमुघं-सागरतटे भविष्यन् अयं प्रचालन-प्रदर्शनं हिन्दमहासागरक्षेत्रे (आई ओलआर) “प्रियः सुरक्षा-सहभागी” इति नौसेनायाः संकल्पं प्रकाशयिष्यति। एषः कार्यक्रमः नौसेनायाः दुर्जेयलढाकुशक्तेः, प्रौद्योगिक-उत्कृष्टतायाः, परिचालन-सज्जतायाः च प्रत्यक्षं रूपं दास्यति। सः देशस्य वर्धमानां सामुद्रिकशक्तिम्, आत्मनिर्भरतां च दर्शयिष्यति। अस्मिन् प्रदर्शन-कार्यक्रमे अग्रिमपङ्क्तीनां उपकरणानां समन्वितयुद्धाभ्यासाः प्रदर्श्यन्ते, येन नौसेनायाः सामुद्रिकक्षेत्रे शक्तिप्रदाने सुस्पष्टतायाश्च क्षमता प्रकट्यते।
तस्य उक्तिः — आत्मनिर्भरभारतस्य दृष्टिकोणं दर्शयन् अयं प्रदर्शनः रक्षणनिर्माणक्षेत्रे भारतस्य वर्धमानां आत्मनिर्भरतां प्रतिपादयन् अनेकानि स्वदेशनिर्मितानि साधनानि प्रदर्शयिष्यति। एषः समारोहः “ऑपरेशन् सिंदूर” इत्यस्य समये प्रदर्शितां नौसेनायाः सज्जतां निवारकक्षमतां च प्रकाशयिष्यति, या निश्चित्ता ,वेग, प्रभुत्वेन सह आक्रमणं कर्तुं तस्याः सामर्थ्यं प्रमाणयति। अयं प्रदर्शनः तेषां भारतीयनौसेनायाः वीराणां पुरुषाणां नारीणां च व्यवसायिकता, अनुशासनं, साहसं च स्मारयन् तेषां देशस्य सार्वभौमिकत्वस्य समुद्रगतहितस्य च रक्षणाय समर्पणं प्रति श्रद्धाञ्जलिः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता