Enter your Email Address to subscribe to our newsletters

-प्रधानमन्त्री द्वादशवादने त्रिंशदधिकैकवादनपर्यन्तं राज्यजयंतीसमारोहं संबोधयिष्यति।
देहरादूनम्, 09 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः राज्यस्थापनादिवसस्य रजतजयन्त्यवसरे रविवासरे प्रातः एकादशवादने पञ्चचत्वारिंशदधिकएकवादनसमये दूननगरस्थे एफ.आर.आई. (वनानुसन्धानसंस्थानम्) इत्यस्मिन् स्थले उपस्थास्यन्ति। अस्मिन् अवसरे ते अष्टसहस्रद्विशत्सष्टिकोट्यधिकरूप्यकाणां परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। प्रधानमन्त्रिणः आगमनं प्रति देवभूमेः जनाः अतीव उत्साहिताः सन्ति। प्रधानमन्त्रिणः कार्यक्रमं प्रति आरक्षकविभागः सुरक्षा-एजेन्स्यः च सचेतनावस्थायाम् अवस्थितााः सन्ति।
प्रधानमन्त्री नरेन्द्रमोदीः अद्य एकादशवादने पञ्चमिनिटादधिके जौलीग्रान्टस्थिते देहरादूनविमानपत्तने आगमिष्यति, ततः एकादशवादने त्रिंशन्निमेषे भारतीयवायुसैन्यस्य विशेषहेलीकाप्टरेण देहरादूनविमानपत्तनात् भारतीयसैन्यअकादमीं (आई.एम्.ए.) गमिष्यन्ति। प्रायः एकादशन्निमेषे पञ्चचत्वारिंशन्निमेषे प्रधानमन्त्रिणः मार्गेण एव कार्यक्रमस्थलम् एफ.आर.आई. आगमिष्यन्ति। तस्मिन् कालखण्डे ते उद्योगविभागेन विन्यस्ताः विविधानि प्रदर्शनीस्थलानि निरीक्ष्य स्वप्रवचनम् अपि प्रदास्यन्ति। द्वादशवादने त्रिंशन्निमेशात् आरभ्य एकवादनत्रिंशदमिनिटपर्यन्तं ते राज्यस्थापनादिवसस्य समारोहं संबोधयिष्यति।
समारोपानन्तरं एकवादनपञ्चत्रिंशन्निमेषे प्रधानमन्त्रिणः मार्गेण पुनरपि आई.एम्.ए. प्राप्य हेलीकाप्टरेण देहरादूनविमानपत्तनं गमिष्यनलति। द्विवारादनपञ्चनिमिषे जौलीग्रान्टविमानपत्तनात् देहालीं प्रति निर्गम्य द्विवारादनपञ्चचत्वारिंशन्निमेषे देहलीं प्राप्स्यति।
प्रधानमन्त्री नरेन्द्रमोदीना अद्य सामाजिकमाध्यमे प्रकाशिते सन्देशे लिखितम् अस्ति यत् उत्तराखण्डराज्यस्य स्थापनायाः पञ्चविंशतितमवर्षपूर्त्यां सर्वेभ्यः भ्रातृभ्यः भगिनिभ्यश्च मम अनेकशः शुभकामनाः। प्रकृतेः अङ्के स्थिता अस्माकं एषा देवभूमिः पर्यटनक्षेत्रेण सह सर्वेषु क्षेत्रेषु नूतनां प्रगतेः गतिं लब्धवती। अस्य विशेषसन्दर्भे अहं अत्रस्थितानां विनम्राणां कर्मठानां देवतुल्यानां जनानां सुखसमृद्धिं, सौभाग्यं, उत्तमस्वास्थ्यं च प्रार्थये।
प्रधानमन्त्री नरेन्द्रमोदीः उत्तराखण्डराज्यस्थापनादिवसस्य रजतजयंतीसमारोहं प्रति अष्टसहस्रद्विशत्सष्टिकोट्यधिकरूप्यकाणां परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। अस्मिन् अवसरे प्रधानमन्त्रिणा स्मारकडाकटिकटः अपि विमोक्ष्यते। ते राज्यस्य पञ्चविंशतिवर्षपर्यन्तं विकासयात्रां निरूपयन्तीं प्रदर्शनीं निरीक्ष्य विकासयात्रासम्बद्धं थीम-पार्कं पवेलियनं च अवलोकयिष्यति, प्रबुद्धजनैः सह संवादं च करिष्यति। ततः जनसभां संबोधयिष्यति।
मुख्यमन्त्री पुष्करसिंधामी नाम सामाजिकमाध्यमे उत्तराखण्डराज्यस्थापनायाः रजतजयंतीवर्षे शुभाशंसनं दत्वा उक्तवान्—राज्यस्य आन्दोलनकारिणां तपः, त्यागः, संघर्षः, बलिदानं च येन देवभूमिः उत्तराखण्डः सीचितः, सः अधुना प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शनस्य अधीनं समग्रविकासदिशायाम् अग्रसरः अस्ति।
प्रधानमन्त्रिणः स्वागताय दूननगरं सज्जं जातम् अस्ति। एफ.आर.आई. संस्थानं सह नगरं सुशोभितं कृतम्। रजतजयंतीउत्सवस्य प्रधानमन्त्रिणः आगमनस्य च अवसरयोः सर्वत्र विज्ञापनपटलैः अलङ्करणं कृतम्। एफ.आर.आई.प्रदेशे मुख्यसमारोहम् उद्दिश्य आरक्षकविभागेन तद्विशेषपरिसरं शून्यप्रवेशक्षेत्र घोषितम्। नगरस्य मार्गाः अपि परिवर्तिताः। सुरक्षा-विन्यासाः दृढतया विधाय आरक्षकैः कार्यक्रमे सहभागीजनान् प्रति विशेषनिर्देशाः दत्ताः। आरक्षकविभागः रात्रौ दीर्घं कालं यावत् कार्यक्रमस्थलपरिसरे व्यवस्थाः सुनिश्चितवन्तः। रविवासरप्रभाते एव एफ.आर.आई.प्रदेशं नगरं च सर्वत्र आरक्षकसंवेदनशीलतया स्थिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता