Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 09 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा० हिमन्तबिस्वसरमा महोदयः रविवासरे अस्मिन् ‘श्रीमन्तशङ्करदेवकलाक्षेत्रस्य’ स्थापना-दिवसे असमप्रदेशस्य कलासंस्कृत्योः समृद्धवारसस्य प्रतीकरूपेण असमवासिनः सर्वान् हृदयपूर्वकं शुभाशंसनानि अर्पितवान्।
मुख्यमन्त्रिणा सामाजिकमाध्यमेन प्रदत्ते सन्देशे भारतरत्ना डा० भूपेनहजारिकस्य तं भावपूर्णं वचनं स्मारितम् — “श्रीमन्तशङ्करदेवकलाक्षेत्रमेव मम अन्तिमं विश्रामस्थलं भविष्यति” — इत्युक्त्वा, एषा संस्था असमप्रदेशस्य सामूहिकसंस्कृतिकचेतनायाः जीवन्मूर्तिरिति अभिहितवान्।
डा० सरमामहोदयः अवदत् यत् १९९८ तमे वर्षे अद्य एव दिवसे जनतायै समर्पिता एषा राष्ट्रीयसंस्कृतिकधरोहराऽसमप्रदेशस्य कला-संस्कृति-परम्पराणां च संवर्धनार्थं निरन्तरं कार्यं कुर्वन्ती अस्ति। तेन तस्याः निर्माणे संलग्नानां सर्वेषां व्यक्तीनां स्मरणं कृत्वा वर्तमानाधिकारिणः, कर्मचारिणः, कलाकारांश्च शुभाशंसनानि दत्तानि।मुख्यमन्त्रिणा उक्तं यत् राज्यसरकारा एतां राष्ट्रीयधरोहरां विस्तृततररूपेण विकासयितुं नूतनशिखराणि च प्राप्तुं संकल्पिता अस्ति, यत् सा भाविनां पीढीनां कृतेऽपि प्रेरणास्रोतः भवेत्।
-------------------
हिन्दुस्थान समाचार / अंशु गुप्ता