Enter your Email Address to subscribe to our newsletters

भोपालम्, 09 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य उच्चतन्त्रशिक्षामन्त्री इन्द्रसिंहः परमारः अवदत् यत् “राष्ट्रियशिक्षानीतिः–२०२०” इत्यस्य अनुसरणेन मध्यप्रदेशः रोजगारप्रधानं गुणवत्तरं भारतकेंद्रितं च शिक्षातन्त्रं प्रति अग्रसरोऽस्ति। सः अवदत् — “वसुधैव कुटुम्बकम्” इत्येतदेव भारतस्य मूलदृष्टिकोणः अस्ति। अस्माकं भावः अस्ति यत् विश्वं कुटुम्बं भवेत्, न तु बाजारः। अस्मिन्नेव भावेना, प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतदेशेन कोविड् इत्यस्य भीषणसंकटकाले विविधान् देशान् प्रति वैक्सीन् प्रदत्ता आसीत्।
मन्त्री परमारः रविवासरे भोपालनगरे श्यामलाहिल्स् प्रदेशे स्थिते गांधीभवने मीणासमाजशक्तिसंगठनस्य आयोजनमाध्यमेन सम्पन्ने सामाजिके कर्तव्यवीरसम्मान–स्थापनादिवससमारोहे उपस्थितः सम्बोधनं च दत्तवान्। सः अवदत् यत् मीणासमाजः प्रकृतेः समीपतमः, प्रकृतिपूजकः समाजः अस्ति। सः संगठनस्य सप्तदशमं स्थापनावर्षं अभिनन्द्य समाजस्य विविधान् प्रतिभान् सन्मानितवान्।
परमारः अवदत् — कृतज्ञता भारतस्य परम्परा, सभ्यता च अस्ति। अस्माकं पूर्वजैः जलसूर्यवृक्षादीनां प्राकृतिकऊर्जास्रोतानां संरक्षणाय श्रद्धारूपेण परम्परा मान्यता च स्थापिता आसीत्। एषः पूर्वजैरुपनिबद्धः ज्ञानः पीढीपरम्परया स्थानान्तरितः। अतः अस्माभिः प्रकृतिसंरक्षणसंकल्पेन सह अग्रे गन्तव्यम्। सः सर्वान् प्रति आह्वानं कृतवान् यत् युगानुकूलपरिप्रेक्ष्ये स्वास्थ्यम् उद्दिश्य प्लास्टिकमुक्तं सामाजिकपरिवेशं निर्मातुं सर्वे मिलित्वा सहभागी भवन्तु। परमारः कृषिक्षेत्रे दुग्धोत्पादने च रासायनिकवस्तूनाम् अल्पोपयोगेन जैविककृषेः शुद्धतायाः च दिशि अग्रे गन्तुं आह्वानं कृतवान्। अवदत् च — भारतीयगृहिणीनां रसोय्यां नास्ति तराजुः, नापि तासां पाककौशलं शिक्षासंस्थायाम् अधीतम्; तासां स्वाभाविकं पारम्परिकं च कौशलम् एव तदस्ति। भारतस्य रसोई विश्वमञ्चे व्यवस्थापनस्य उत्कृष्टमादर्शं, श्रेष्ठमुदाहरणं च अस्ति।
परमारः अवदत् — भारतीयरसोई आयुर्वेदस्य केन्द्रं पूर्वं आसीत्, अद्य पुनः अस्माभिः ताम् आयुर्वेदसंबद्धैः द्रव्यैः समृद्धां कर्तुं प्रयत्नः करणीयः। अस्माकं सर्वेषां सहभागितया, पूर्वजानां ज्ञानाधारेण, पुनः विश्वमञ्चे अग्रगण्यराष्ट्ररूपेण भारतस्य पुनर्निर्माणं भविष्यति। तदर्थं स्वाभिमानेन सर्वे क्षेत्रेषु परिश्रमतपसा च अग्रे गत्वा मातृभूमेः कीर्तिं विश्वमञ्चे प्रसारितुं आवश्यकम्। अस्माकं गौरवशालिनी सभ्यता, भाषा, इतिहास, ज्ञान–विज्ञानादिभ्यः आधृत्य, भारतम् पुनः “विश्वगुरुः” भविष्यति। भारतम् स्वपुरुषार्थेन २०४७ तमे वर्षे ऊर्जा–धान्ययोः क्षेत्रयोः अपि आत्मनिर्भरः भविष्यति, अपरदेशानां पूर्तौ च समर्थराष्ट्रं भविष्यति।
अस्मिन्नेव अवसरे उपस्थिताः आसन् — सबलगढविधानसभाया विधायकः सरलाबिजेन्द्ररावत्, राजस्थानात् आगता समाजसेविका च मिस् इण्डिया (२०१९)जयामीणा सहायकआरक्षक आयुक्ता (जहाँगीराबाद–भोपाल) सुरभिमीणा, सोशलमीडिया प्रभावका नीरजमीणा, संगठनस्य प्रदेशाध्यक्षः रामघुनावत्, समाजस्य वरिष्ठजनाः, संगठनपदाधिकारीगणः, सामाजिकबंधवः भगिन्यः च युवाश्रेयांसः।
हिन्दुस्थान समाचार / अंशु गुप्ता