उपराष्ट्रपतिः सी.पी. राधाकृष्णन् कर्नाटकभ्रमणे बेंगलुरूं प्राप्नोत्
बेंगलुरूः, 9 नवंबरमासः (हि.स.)। उपराष्ट्रपतिः सी पी राधाकृष्णनः पदभारग्रहणानन्तरं स्वस्य प्रथमां अधिकृतयात्रां कृत्वा अद्य कर्नाटकं प्राप्तवान्। बेंगलुरूहवाय्यानिके राज्यपालः थावरचन्दगहलोतः, केन्द्रीयः मन्त्री एच डी कुमारस्वामी च अन्ये अनेकाः गण्
Vice President


बेंगलुरूः, 9 नवंबरमासः (हि.स.)।

उपराष्ट्रपतिः सी पी राधाकृष्णनः पदभारग्रहणानन्तरं स्वस्य प्रथमां अधिकृतयात्रां कृत्वा अद्य कर्नाटकं प्राप्तवान्। बेंगलुरूहवाय्यानिके राज्यपालः थावरचन्दगहलोतः, केन्द्रीयः मन्त्री एच डी कुमारस्वामी च अन्ये अनेकाः गण्यमान्याः व्यक्तयः च तस्य स्वागतं सस्नेहं कृतवन्तः।

अस्य यात्राकालस्य मध्ये उपराष्ट्रपतिः सी पी राधाकृष्णनः हासनजिलायां श्रवणबेलगोलायां आयोजिते परमपूज्याचार्यश्री १०८ शान्तिसागरमहाराजस्य स्मरणोत्सवकार्यक्रमे सहभागिता करिष्यति। एषः कार्यक्रमः आचार्यशान्तिसागरमहाराजस्य वर्षे 1925 तः श्रवणबेलगोलायाः प्रथमयात्रायाः शताब्दीसमारोहस्य अङ्गं भवति। अस्मिन् अवसरि उपराष्ट्रपतिः आचार्यशान्तिसागरमहाराजस्य प्रतिमास्थापनायां च चतुर्थशैलनामकरणसमारोहे च सहभागिता करिष्यति।

अनन्तरं उपराष्ट्रपतिः मैसूरनगरे जे एस एस उच्चशिक्षाअनुसन्धानअकादम्याः षोडशमे दीक्षान्तसमारोहे उपस्थितः भविष्यति तथा स्नातकविद्यार्थिनः प्रति सन्देशं दास्यति। एषः कार्यक्रमः सुत्तूरश्रीक्षेत्रस्य जगद्गुरोः श्रीवीरसिंहासनमहासंस्थानमठस्य तत्त्वावधाने आयोजितः अस्ति।

कर्नाटकभ्रमणे उपराष्ट्रपतिः सुत्तूरमठस्य प्राचीनपरिसरं, मैसूरनगरे चामुण्डेश्वरीमन्दिरं, माण्ड्याजिलायां मेलुकोटेक्षेत्रस्थं चेलुवनारायणस्वामीमन्दिरं च गत्वा पूजाअर्चनां करिष्यति।

---------------

हिन्दुस्थान समाचार