Enter your Email Address to subscribe to our newsletters


उपराष्ट्रपतिः आचार्यश्री १०८ शान्तिसागरमहाराजस्य शताब्दीसमारोहस्य सहभागी अभवत्।
प्राचीनपाण्डुलिपीनां संरक्षणाय प्रधानमन्त्रिणः यत् प्रयासः कृतः, तत् उपराष्ट्रपतिना राधाकृष्णने प्रशंसितम्।
हासनम्, 9 नवंबरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन नामकः कर्नाटकस्य हासनजिलायां श्रवणबेलगोले स्थिते आचार्यश्री शान्तिसागरमहाराजस्य प्रतिमां अनावरणं कृत्वा दिगम्बरपरम्परायाः पुनरुद्धारे तस्य अमूल्यं योगदानं प्रशंसितवान्। रविवासरे उपराष्ट्रपतिः श्रवणबेलगोले परमपूज्याचार्यश्री १०८ शान्तिसागरमहाराजस्य शताब्दीसमारोहस्य सहभागी अभवत्। स्वसन्देशे उपराष्ट्रपतिः राधाकृष्णन उक्तवान् यत् आचार्यस्य जीवनं जैनधर्मस्य शाश्वतादर्शान् — अहिंसा, अपरिग्रहं, अनेकान्तवादं च — प्रतिफलयति। सः अवदत् यत् एते आदर्शाः अद्यतनजगत् शान्तिसौहार्दयोः रक्षणार्थं अत्यन्तं प्रासंगिकाः सन्ति।
श्रवणबेलगोलेऽस्य आध्यात्मिकमहत्त्वं निर्दिश्य उपराष्ट्रपतिः उक्तवान् यत् भगवान्बाहुबलेः प्रतिमा च सम्राट् चन्द्रगुप्तमौर्यस्य त्यागविरासत् च जैनधर्मस्य उच्चमूल्यानां प्रतीकौ स्तः।उपराष्ट्रपतिः प्रधानमन्त्रिणः नरेन्द्रमोदिनः तेषां प्रयासानां प्रशंसा अपि कृतवान् — यैः क्षेत्रीयभाषाभ्यः शास्त्रीयदर्जः प्रदत्तः, ‘ज्ञानभारतं मिशन’ इत्यस्मिन् प्राचीनपाण्डुलिपीनां संरक्षणं च प्रवर्तितम्। कार्यक्रमे राज्यपालः थावरचन्दगहलोतः, केन्द्रीयमन्त्री एच.डी. कुमारस्वामी, राजस्वमन्त्री कृष्णबायरेगौडः, योजना-सांख्यिकीमन्त्री डी. सुधाकरः, श्रवणबेलगोले जैनमठस्य बहवः साधुसन्तः, गण्यमान्यव्यक्तयः च उपस्थिताः आसन्। ततः अनन्तरं उपराष्ट्रपतिः राधाकृष्णनः माण्ड्याजिलायां मेलुकोटे स्थितं चेलुवनारायणस्वामिमन्दिरं सन्दर्श्य प्रार्थनां कृतवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता