Enter your Email Address to subscribe to our newsletters

लखनऊ, 9 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी-लखनऊस्थिते संजयगांधी-स्नातकोत्तरसंस्थाने (एसजीपीजीआई इत्यत्र) आईएएस-अधिकारी जितेंद्र-कुमारस्य निधनम् अभवत्। ते दीर्घकालात् व्याधिग्रस्ताः आसन्। प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथेन तेषां निधने शोकः प्रकटितः।
1990 बैच' इत्यस्य आईएएस-अधिकारी जितेन्द्रकुमारः 35 वर्षाणि यावत् प्रशासनिक सेवायाः पश्चात् अस्मिन् वर्षे जूनमासस्य त्रिंशत् दिनांके सेवानिवृत्तः जात:। ते राज्यसर्वकारे अवरमुख्यसचिव: (सामान्य प्रशासन:), प्रमुखसचिव: (पर्यटन विभागः) तथा च पर्यटनमहानिदेशकः इत्यादिषु पदेषु कार्यं कृतवन्तः। ते कार्यकुशलतया, सौम्यस्वभावेन तथा मिलनसारेण प्रसिद्धाः आसन्।
दीर्घकालात् व्याधिग्रस्ताः पूर्व-आईएएस-अधिकारी संजयगांधी-स्नातकोत्तरसंस्थाने (एसजीपीजीआई इत्यत्र) चिकित्साधीनाः आसीत्। रविवासरे चिकित्सकैः तान् मृत घोषिताः। तेषां निधनेन प्रशासनिक जगति शोकः प्रसृतः।
प्रदेशस्य मुख्यमंत्री-योगी-आदित्यनाथेन पूर्व आईएएस-अधिकारी जितेंद्र-कुमारस्य निधने शोकः प्रकटितः। तेन एक्स' पटले लिखितम् - अहं प्रभोः श्री रामं प्रार्थनाम् करोमि यत् दिवंगतात्मने स्वकीय श्रीचरणेषु स्थानं ददातु। शोकसंतप्तपरिवाराय शक्तिञ्च प्रदानं करोतु।
हिन्दुस्थान समाचार