Enter your Email Address to subscribe to our newsletters

भारतस्य आर्थिक-राजधानी-वद् मुम्बईं प्रति गन्तुम् इच्छन्तः अधिकांशाः जनाः ‘गेटवे ऑफ इंडिया’ इत्येतत् अवश्यं द्रष्टुं यान्ति एव, तस्याः स्थापत्य-कला-भव्यतां च अवलोक्य तया अप्रभाविताः न भवन्ति। अस्य स्मारकस्य इतिहासः ०२ दिसंबर १९११ इत्यस्य दिनाङ्केन सह सम्बद्धः अस्ति। तस्मिन् एव दिवसे प्रथमवारं ब्रिटेनस्य तदानीन्तनः राजा जार्ज-पञ्चमः तथा रानी मैरी इत्यौ भारतम् आगच्छताम्। आङ्गलैः तयोः आगमनाय धन्यवाद-प्रदर्शनार्थं च, तयोः यात्रायाः स्मरणार्थम् च, समुद्री-मार्गस्य प्रवेश-द्वाररूपेण ‘गेटवे ऑफ इंडिया’ इत्यस्य निर्माणम् कृतम्।
दक्षिण-मुम्बई-प्रदेशे समुद्र-तट-समीपे स्थितम् एतत् द्वारम् २६ मीटर-उन्नतम् अस्ति। प्रसिद्ध-वास्तुकारेण जॉर्ज-विन्सेंटेन नेतृत्वेन एतत् स्थापत्य-रूपं १९२४ तमे वर्षे सिद्धम् अभवत्। समुद्र-मार्गेण मुम्बईम् आगच्छतः यात्रीणां दृष्टिपथे प्रथमं यत् महानगरीय-भवनं दृश्यते, तत् ‘गेटवे ऑफ इंडिया’ एव।
महत्त्वपूर्ण घटनाचक्रः
१८०४ — नेपोलियन् बोनापार्ट् फ्रांस-देशस्य सम्राट् रूपेण अभिषिक्तः।
१९११ — जॉर्ज-पञ्चमः क्वीन् मैरी च भारतम् आगच्छन्तौ ब्रिटेनस्य प्रथमौ राजा-रानी भवतः। तयोः बंबई-आगमन-स्मृत्यर्थं गेटवे ऑफ इंडिया निर्मितम्।
१९७६ — फिदेल् कास्त्रो क्यूबा-राष्ट्रस्य राष्ट्रपति जातः।
१९७१ — अरब-प्रायद्वीपस्य षट् प्रदेशाः मिलित्वा संयुक्त-अरब-अमीरात् राष्ट्रस्य स्थापना अकुर्वन्; १९७२ फरवरी-मासे सप्तमः देशः अपि सञ्चिक्तः।
१९८९ — विश्वनाथ-प्रताप-सिंह भारतस्य सप्तमः प्रधानमन्त्री अभवत्।
१९९९ — भारतदेशे बीमा-क्षेत्रे निजी-निवेशस्य अनुमतिः प्रदत्ता।
२००३ — बोस्नियाई-सर्ब-सेनायाः पूर्व-सैन्य-प्रमुखः मोमिर् निकोलिक् १९९५ तस्य नरसंहारस्य अपराधे हेग्-स्थित संयुक्त-राष्ट्र-न्यायालयेन दोषी घोषितः, सप्तविंशतिवर्ष-कारावास-दण्डश्च दत्तः।
२००६ — फिलीपीन्-देशे ज्वालामुखि-मलबस्य पतनात् २०८ जनाः मृताः, २६१ घायलाः।
२००७ — पाकिस्तानस्य तदानीन्तन-राष्ट्रपतिः परवेज् मुशर्रफ़ ८ जनवरी-निर्धारित-निर्वाचनस्य पूर्वं विरोध-प्रदर्शनानि रैल्यः च देशे प्रतिबन्धितवान्।
जन्माः
१९३७ — पूर्व-लोकसभा-अध्यक्षः मनोहरः जोशी।
१९३९ — प्रसिद्धा पटकथा-लेखिका अचला नागर।
१९६० — भाजपा-अध्यक्षः, केन्द्रिय-मन्त्री च जगत्-प्रकाश-नड्डा।
१९६३ — विख्यातः भारतीय-अमेरिकी-वैज्ञानिकः शिवा अय्यदुरई।
निधनानि
१९१८ — भारतस्य प्रमुखः शिक्षाशास्त्री गुरुदास- बनर्जी।
१९६९ — सोवियत्-संघस्य राष्ट्रपति क्लिमेन्ट् वोरोशिलोव।
२०१२ — हिन्दी-चलच्चित्रस्य चरित्र-अभिनेत्री प्रीति गांगुली।
२०१४ — हिन्दी-चलच्चित्र-विख्यातः हास्य-अभिनेता देवेन् वर्मा।
महत्त्वपूर्ण दिवसाः
अन्तर्राष्ट्रियदासप्रथा-उन्मूलन-दिवसः।
राष्ट्रियप्रदूषणनियन्त्रणदिवसः।
अन्तर्राष्ट्रीय कम्प्यूटर-साक्षरता-दिवसः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता