मीरजापुरजनपदे ३२ बीघामान्या वनभूमिः अतिक्रमणात् मुक्ताऽभूत्, अधुना रोप्यन्ते वृक्षाः
– पादपरोपणार्थं बोननाली-सुरक्षाखायी च निर्मिता मीरजापुरम्, १ दिसंबरमासः। उत्तरप्रदेशस्य मीरजापुरजनपदस्य हलियाक्षेत्रस्य परसियाबीटस्य अन्तर्गतस्य विभागसंख्या–३, ग्राम–औरा इत्यस्य वनभूमौ दीर्घकालात् प्रवृत्तम् अतिक्रमणं वनविभागेन महता कार्यवाहीया अप
औरा वन भूमि क्षेत्र से से अतिक्रमण हटाते वनकर्मी।


– पादपरोपणार्थं बोननाली-सुरक्षाखायी च निर्मिता

मीरजापुरम्, १ दिसंबरमासः। उत्तरप्रदेशस्य मीरजापुरजनपदस्य हलियाक्षेत्रस्य परसियाबीटस्य अन्तर्गतस्य विभागसंख्या–३, ग्राम–औरा इत्यस्य वनभूमौ दीर्घकालात् प्रवृत्तम् अतिक्रमणं वनविभागेन महता कार्यवाहीया अपाकृतम्। वन्यजीवप्रतिपालकः चुर्कस्थितः भास्करप्रसादपाण्डेयस्य नेतृत्वे कृतेऽस्मिन् अभियानि प्रायः ३२-बीघापरिमिता वनभूमिः अवैध-अधिग्रहणात् मुक्ताऽभूत्।

रविवासरे दलेन स्थलम् आगत्य अवैधरीत्या रोपितां गोधूमफसलां जेसीबी-यन्त्रेण विनाशिता। ततः आगामीवृक्षारोपणकार्यक्रमस्य (२०२६) निमित्तं सुरक्षाखायी बोननाली च शीघ्रतया निर्माणिते। अस्मिन् कार्ये वननिरीक्षकः सूरजपाण्डेय, वनरक्षकः शीतलबक्षसिंहः, ब्रह्मदेवपाण्डेय इत्यादयः अनेक वनकर्मिणः सम्मिलिताः आसन्।

वन्यजीवप्रतिपालकः भास्करप्रसादपाण्डेय अवदत् यत् अवैधाभिग्रहणापसारणेन अस्या वनभूमेः पुनः वनसंरक्षणदिशि प्रवर्तनं क्रियते। सः अवदत् आगामि ऋतौ अत्र व्यापकस्तरे वृक्षारोपणं भविष्यति, येन वनक्षेत्रं पुनर्जीवितुं शक्यते।

विदितं यत् भास्करपाण्डेय पूर्वं हलियाक्षेत्ररूपेण कार्यं कुर्वन् अतिक्रमणविरुद्धं दृढाभियानं प्रावर्तयत्। तस्मिन् काले शताधिकेषु अतिक्रमणकारिषु कार्यवाही कृता, यस्य फलरूपेण वर्षाणां यावत् अत्र अवैध-अधिग्रहणानां घटनाः नियंत्रिताः आसन्। वर्तमानकार्यवाह्यानन्तरं अतिक्रमणकारिषु भयस्य वातावरणं वर्तते तथा च वनविभागस्य सक्रियता सर्वत्र चर्चाविषयः जाताऽस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता