रायपुरम् : खाद्ये-पेये जीवनशैल्यां च प्रकृतिविरुद्धं गमनं मास्तु : राज्यपालः डेका
‘कोडकॉन’ के तृतीय वार्षिक सम्मेलन में शामिल हुए राज्यपाल
राज्यपाल रमेन डेका ओबिसिटीज़, डायबिटिज एंड इंडोक्राइन सोसाइटी (कोड) के सम्मेलन में


राज्यपाल रमेन डेका ओबिसिटीज़, डायबिटिज एंड इंडोक्राइन सोसाइटी (कोड) के सम्मेलन में


रायपुरम्, 1 दिसंबरमासः (हि.स.)।

राज्यपाल रमेनडेका अवदत् यत् स्वास्थ्यरक्षणाय अस्माभिः प्रकृतेः नियमाः अवश्यं ध्याननीयाः। अस्माकं आहारविहारौ जीवने च प्रकृतिसम्मतौ चेत् वयं बहुषु व्याधिषु रक्षिताः भवेम।

राज्यपाल रमेनडेका रविवासरस्य सायंकाले रायपुरनगरे एकस्मिन्न् निजीहोटले आयोजिते छत्तीसगढ ओबिसिटीज् डायबिटीज् एंड इंडोक्राइन सोसाइटी इति कोड नाम्नि संस्थायाः तृतीयवार्षिकसम्मेलने मुख्यातिथेः रूपेण उपस्थिताः आसन्। स्वस्य उद्बोधने सः अवदत् यत् अद्यकालम् डायबिटीज् मोटापा हार्मोनसम्बन्धिनः व्याधयः केवलं भारतस्य न, अपितु विश्वस्यापि एकं गम्भीरं स्वास्थ्यसंकटम् अभवत। भारतं जगतः डायबिटीज्कैपिटल इति उच्यते स्म च छत्तीसगढस्य स्थितिः अपि चिन्ताजनका अस्ति। राज्ये पञ्चदशात् उन्नविंशतिवयः समूहस्य नवनिर्दशांशपरिमाणे वयस्केषु रक्तशर्करास्तरः सामान्यतया अधिकः दृश्यते तथा शहरीप्रदेशेषु एषः प्रतिशतः शीघ्रतरं वर्धते।

तेनेदं उक्तम् यत् डायबिटीज् मोटापा मानसिकरोगाश्च एते सर्वे अस्माकं सभ्यतया उत्पन्नाः समस्याः। वस्तुतः जलवायुपरिवर्तनम् पर्यावरणदूषणम् विशेषतः सूक्ष्मप्लास्टिकस्य उपयोगः अस्माकं स्वास्थ्ये महतीं प्रतिकूलप्रभावकारकचुनौती अस्ति।

डेका अवदत् यत् अद्य वयं जीवनशैली आचरणे च पश्चिमदेशीयरीतिम् अनुगच्छामः। राज्यपालः चरकसंहितां प्राचीनग्रन्थं षट्शतानि ईसापूर्वे लिखितं निर्दिश्य उक्तवान् यत् तस्मिन् समयेऽपि अन्नस्य गुणः प्रकृतिः च चयापचयसंबन्धिनां रोगाणां मूलकारणत्वेन दृष्टम्। राज्यपालः अवदत् यत् अस्माकं ऋषयः पूर्वमेव उक्तवन्तः यत् अनुचितः आहारः एव शरीरस्य सम्यक्संतुलनं विघटयति रोगाणां मूलं भवति। अद्य विज्ञानमपि तदेव सत्यं प्रदर्शयति। यत् मोटापस्य समस्या तीव्रतया वर्धते, तस्य कारणं जंकफूड इति।

राज्यपालः चिकित्सकानां सामाजिक नैतिक भूमिकायाः अपि महत्त्वम् अवगम्य उक्तवान् यत् चिकित्सकाः स्वस्य धवलवसनानि निर्दोषरूपेण धारयन्तु। राज्यपालः चिकित्सकान् समाजस्य मार्गदर्शकान् इति अभिलक्ष्य सराहयत् तथा अवदत् यत् आरोग्यसेवाप्रदाने निजीचिकित्सकानां संस्थानानां च योगदानं प्रशंसनीयम्। तेभ्यः राज्यपालः आह्वानं कृतवन्तः यत् छत्तीसगढराज्ये सिकलसेलरोगस्य विषये जनजागरूकता वर्धयन्तु तथा टीबी रोगस्य निर्मूलने प्रयत्नं कुर्वन्तु।

कार्यक्रमे प्रोफेसर एस एन मिश्रायै आजीवनसिद्धिपुरस्कारः प्रदत्तः, क्विज् प्रतियोगितायाः विजेता छात्राः च सम्मानिताः।

कार्यक्रमे विशिष्टातिथेः रूपेण आयुषविश्वविद्यालयस्य कुलपति डॉ प्रदीपपात्रा उपस्थिताः आसन्। कार्यक्रमारम्भे आयोजनसमितेः प्रमुखा डॉ कल्पनादास, डॉ संजीतजायसवाल तथा अन्यसदस्याः अतिथीनां स्वागतं कृतवन्तः। कोडकॉनसम्मेलने देशभरात् आगताः एंडोक्राइनोलॉजिस्ट चिकित्सकाः स्वास्थ्यविशेषज्ञाः च आधुनिकचिकित्सा जीवनशैलीजनितरोगाः तथा प्रौद्योगिकीयप्रगति विषयेषु विचारान् सहकृतवन्तः।

---------------

हिन्दुस्थान समाचार