Enter your Email Address to subscribe to our newsletters

लखनऊ, 1 दिसंबरमासः(हि.स.)।
बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षया मायावत्याः उक्तं यत् जनहितसहितभिन्नमहत्त्वपूर्णविषयेषु चर्चार्थं सदनस्य संचालनम् अत्यावश्यकम्।
सा सोमवासरे एक्स इति माध्यमे लिखितवती यत् संसदस्य शीतकालिकम् अधिवेशनम् अद्य आरभ्यते। यथा सर्वेषु अधिवेशनसत्रेषु तथा अस्मिन् सत्रे अपि बहु विवादस्य सम्भावना व्यक्ता अस्ति, किन्तु अस्माकं पक्षस्य अभिलाषा अस्ति यत् संसदयोः ऊभययोः सदनोः कार्याणि सुश्रेण्यया शान्तिपूर्वकं च प्रवर्तेरन्, येन देशजनहितयोः आवश्यकाः प्रमुखाशca विषयाः सम्यक् चर्चायाः विषयत्वं प्राप्नुयुः। विशेषतया राजधानी दिल्ली आदिषु वायुप्रदूषणसम्बद्धा महान् क्लेशः यः जायते, तथा मतदारसूचीनां सघनपुनरीक्षणम् अर्थात् एसआईआर इति प्रक्रियायाः कारणेन याः व्यवहारिकापीडाः आपत्तयशca सन्ति, तेषां विषये चर्चा भवेत् तथा तेषां समाधानस्य दिशि सार्थकप्रयत्नाः क्रियेरन्।
सा उक्तवती यत् केवलं आरोपप्रत्यारोपैः कार्यसिद्धिः न भविष्यति, अपितु व्यापकदेशजनहितसाधनाय संसदं सुचारुरूपेण सञ्चालयितुं सत्ता विपक्षौ उभावपि राजनैतिकस्वार्थं तीर्त्वा सम्यक् संवेदनाशीलौ गभीरौ च भवितुं आवश्यकम्।
-----------
हिन्दुस्थान समाचार