विद्यालय-पाठ्यक्रमे अद्यापि संस्तुतं अस्ति डार्विन्-प्रणीतं विकासवाद-सिद्धान्तम् - प्रधानः
नवदिल्ली, १ दिसम्बरमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रः प्रधानः सोमवासरे लोकसभायां स्पष्टीकर्तुम् अवदत् यत् चार्ल्स-डार्विन-प्रणीतं विकासवादस्य सिद्धान्तं विद्यालयस्य विज्ञान-पाठ्यक्रमात् न निष्कासितम् अस्ति। ते अवदन् यत् विज्ञान-विषये
चार्ल्स डार्विन का विकासवाद का सिद्धांत की फोटो


नवदिल्ली, १ दिसम्बरमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रः प्रधानः सोमवासरे लोकसभायां स्पष्टीकर्तुम् अवदत् यत् चार्ल्स-डार्विन-प्रणीतं विकासवादस्य सिद्धान्तं विद्यालयस्य विज्ञान-पाठ्यक्रमात् न निष्कासितम् अस्ति। ते अवदन् यत् विज्ञान-विषये शिक्षण-अधिगमन-प्रक्रिया मध्य-कक्षाभ्यः आरभ्य माध्यमिक-स्तर-पर्यन्तं सततम् एक-संहत्याक्रमः अस्ति, तथा च डार्विन-सिद्धान्तः विद्यालय-विज्ञान-पाठ्यक्रमस्य अङ्गत्वेन प्रतिष्ठितः एव अस्ति।

केन्द्रीय-शिक्षामन्त्री डी.एम.के. सांसदेन डॉ. कलानिधि-वीरस्वामिना पृष्टस्य तारांकित-प्रश्नस्य लिखित-उत्तरे अवदत् यत् कोविड–१९ तथा तदनन्तर-काले पाठ्यभारस्य न्यूनीकरण-विषये विभिन्न-पक्षैः—यथा संसदीय-स्थायी-समित्या, सीबीएसई-संस्थया, महाविद्यालय-विश्वविद्यालय-विशेषज्ञैः च—विविध-सुचिन्तित-सूचना दीयमानाः आसन्।

एतत् बहु-स्तरीय-सूचनानां आधारात् एन.सी.ई.आर.टी.-संस्थया विद्यार्थिनां शिक्षकेभ्यश्च हिताय पाठ्यपुस्तकानां युक्तिकरण-प्रक्रिया कृतम्। ते अवदन् यत् एषा प्रक्रिया व्यापक-विशेषज्ञ-परामर्शात् अनन्तरम् अपनिता आसीत्, अस्य उद्देश्यः च छात्राणां उपरि आधिभार-निवारणम् आसीत्।

शिक्षा-मन्त्रिणा अपि निगदितम् यत् सर्वकारः वैज्ञानिक-समुदायेन, शिक्षाविद्भिः, नागरिक-समाजेन च उद्गताः चिन्ताः अवगच्छति इति।

वीरस्वामिना पृष्टम् आसीत्—किं सरकारेण पाठ्यक्रम-युक्तिसंगत-करण-प्रक्रियायाः अंशत्वेन एन.सी.ई.आर.टी.-दशम-श्रेणी-विज्ञान-पाठ्यक्रमात् चार्ल्स-डार्विन-प्रणीतं विकासवाद-सिद्धान्तम् निष्कासितम् इति?

हिन्दुस्थान समाचार / अंशु गुप्ता