Enter your Email Address to subscribe to our newsletters

मुरादाबादः, 01 दिसम्बरमासः (हि.स.)। विशेष-मतदाता-पुनरीक्षण-अभियानम् (एस्।आइ।आर्।) एकं संवैधानिकप्रक्रियैव अस्ति। मृतकान् अथवा पलायनकरितृन् मतदाता-सूच्याः बहिः क्रियन्ते। शुद्धा मतदाता-सूचिः सज्जा भविष्यति। वयम् जनाः भारतस्य निवासिनः, भारतीय-सर्वकारम् इच्छामः। तत्र समाजवादी-पक्षः तु जनान् मोहयन् संवैधानिक-संस्थाप्रति अविश्वासस्य वातावरणं जनयति।
एतानि वचनानि भाजप-प्रदेश-अध्यक्षेन चौधरी-भूपेन्द्रसिंहे सोमवासरे मुरादाबादस्य पी॰डब्ल्यू॰डी अतिथिगृहे पत्रकारैः सह उक्तानि। विशेष-मतदाता-पुनरीक्षण-अभियानस्य (एस्।आइ।आर्।) विषये भाजप-प्रदेश-अध्यक्षः चौधरी-भूपेन्द्रसिंहः समाजवादी-पक्षं प्रति तीक्ष्णं प्रहारम् अकुरुत। तेन आरोपितं यत् समाजवादी-पक्षीयाः रोहिंग्या-जनान् तथा अनधिकृतप्रवेशिनां अपि मतदान-अधिकारं दातुम् इच्छन्ति।
भाजप-प्रदेश-अध्यक्षेन पुनः उक्तम्— बिहारनिर्वाचन-काले समाजे अविश्वासं जनयितुं यात्राः आरब्धाः आसन्। निर्वाचन-आयोगेन मतदाता-सूचिः निश्शेषतया निर्धारितायां सर्वे उपशान्ताः अभवन्। अस्य परिणामं जनता अवलोकितवती।
हिन्दुस्थान समाचार / Dheeraj Maithani