मसाला बॉन्डप्रकरणे केरलस्य मुख्यमंत्री विजयनं, पूर्व मंत्रिणे इसाकाय ईडीपरतया कारणं वदतु प्रपत्रकम्
नव दिल्‍ली/तिरुवनंतपुरम्, 01 दिसंबरमासः (हि.स)। प्रवर्तन निदेशालयेन ईडी नाम्ना केरल राज्यस्य मुख्यमन्त्रिणं पिनराई विजयनम् पूर्ववित्तमन्तारं थोमस इसाक् च मुख्यमन्त्रिणः प्रधानसचिवं के एम अब्राहम् च इत्येभ्यः कारणं वक्तुमादेशपत्रं प्रदत्तम्। एतया
ईडी के लोगो का प्रतीकात्‍मक चित्र


नव दिल्‍ली/तिरुवनंतपुरम्, 01 दिसंबरमासः (हि.स)।

प्रवर्तन निदेशालयेन ईडी नाम्ना केरल राज्यस्य मुख्यमन्त्रिणं पिनराई विजयनम् पूर्ववित्तमन्तारं थोमस इसाक् च मुख्यमन्त्रिणः प्रधानसचिवं के एम अब्राहम् च इत्येभ्यः कारणं वक्तुमादेशपत्रं प्रदत्तम्। एतया संस्थया केरल अवयवसुविधा निवेश निधिबोर्ड् केआईआईएफबी इत्यस्य मसाला बाण्ड् इत्यस्मिन् प्रकरणे चतुर्षट् षष्टिः कोट्यः रूप्यकाणां फेमा सूचनापत्रं प्रेषितम्।

अधिकृतस्रोताः सोमवासरे उक्तवन्तः यत् ईडी संस्थया केरलमुख्यमन्त्रिणे पिनराई विजयने मसाला बाण्ड् नाम्ना केआईआईएफबी द्वारा निर्गतस्य कथितलङ्घनस्य विषयेन कारणं वक्तुमादेशः दत्तः। अस्मिन् प्रकरणे पूर्ववित्तमन्त्री टी एम थोमस इसाक् तथा केआईआईएफबी संस्थायाः मुख्यकार्यकारीअधिकारी के एम अब्राहम् अपि ईडी संस्थात् सूचनां प्राप्तवन्तौ।

ईडी संस्थया एषा अनुसन्धानक्रिया केआईआईएफबी संस्थया मसाला बाण्ड् माध्यमेन द्विसहस्र कोट्यः रूप्यकाणां संकलनं फेमा नियमपालनं च सम्बद्ध्य प्रवर्तते। केरल अवयवसुविधा निवेश निधिबोर्ड् इयं राज्यस्य महान्ति महत्वपूर्णानि पूर्वाधारपरियोजनानि वित्तपोषयितुं प्रधानमध्यस्थसंस्था अस्ति। एतया २०१९ तमे वर्षे प्रथमं मसाला बाण्ड् निर्गमनेन एकोनविंशतिसहस्र पञ्चशत कोट्यः रूप्यकाणि संकलितानि यदस्याः योजना ५० सहस्र कोट्यः रूप्यकाणां निधिसंकलनस्य भागः आसीत्।

उल्लेखनीयम् यत् मसाला बाण्ड् इति बाह्यदेशेषु निर्गम्यमानानि ऋणपत्राणि भवन्ति किन्तु स्थानीयमुद्रया न तु भारतीयमुद्रया एव निर्गम्यन्ते। केन्द्रीयअनुसन्धानसंस्था ईडी इत्यनेन विदेशमुद्राव्यवस्थापनअधिनियमस्य फेमा नाम्नः प्रावधानानि आधाय केरलमुख्यमन्त्रिणे पिनराई विजयने तथा अन्येभ्यः अयं आदेशः किञ्चिद् दिवसैः पूर्वं प्रेषितः। अस्मिन् प्रकरणे व्यक्तिगतरीत्या उपस्थितिः आवश्यकत्वं न विद्यते। फेमा अनुसन्धानस्य समाप्तेः अनन्तरं कारणं वक्तुमादेशः प्रदत्तः

भवति।

---------------

हिन्दुस्थान समाचार