उत्तरप्रदेशे अद्यादारभ्य विद्युत्-अदत्तमूल्यानां कृते ‘विद्युत्-बीजक-सौकर्ययोजना’ प्रवर्तिता।
विद्युत्-बीजक-राहत्योजना’ ऐतिहासिकं जनतायै च अतीव उपशमनकारिणी इति ए. के. शर्मा उक्तवान्। प्रयागराजः, 1 दिसंबरमासः (हि.स.)। उपरि सर्वकारस्य नगर-विकास एवं ऊर्जा-मन्त्रिणा एके शर्मा इत्यनेन उक्तम् यत् ‘विद्युत्-बिल-राहत-योजना २०२५–२६’ न केवलं उपभोक
उप्र सरकार की बिजली बिल राहत योजना का शुभारंभ करते हुए मंत्री ए.के.शर्मा का छाया चित्र


उप्र सरकार की बिजली बिल राहत योजना का शुभारंभ करते हुए मंत्री ए.के.शर्मा का छाया चित्र


विद्युत्-बीजक-राहत्योजना’ ऐतिहासिकं जनतायै च अतीव उपशमनकारिणी इति ए. के. शर्मा उक्तवान्।

प्रयागराजः, 1 दिसंबरमासः (हि.स.)।

उपरि सर्वकारस्य नगर-विकास एवं ऊर्जा-मन्त्रिणा एके शर्मा इत्यनेन उक्तम् यत् ‘विद्युत्-बिल-राहत-योजना २०२५–२६’ न केवलं उपभोक्तॄणां प्रति आर्थिक-राहतं दास्यति, अपितु विद्युत्-विभागस्य उपभोक्तृभिः सह विश्वासस्य सहयोगस्य च नवयुगस्य आरम्भः भविष्यति।

नगर-विकास एवं ऊर्जा-मन्त्री शर्मा सोमवासरे प्रयागराजस्य सोरांव-उपकेंद्रे आयोजिते कार्यक्रमे संबोधनं दत्तवन्तः। तत्रैव अस्याः ऐतिहासिकायाः योजनायाः औपचारिकारम्भस्य घोषणामपि कृतवन्तः। ते अवदन् यत् उत्तरप्रदेश-सर्वकारस्य बहुप्रतीक्षितं, उपभोक्तृहिताय अत्यन्तं लाभकारी च ‘विद्युत्-बिल-राहत-योजना २०२५–२६’ अद्यैव समग्रप्रदेशे आरब्धा। एषा योजना न केवलं उपभोक्तॄणां प्रति आर्थिक-राहतं दास्यति, किन्तु विद्युत्-विभागस्य उपभोक्तृभिः सह विश्वास-सहकारयोः नूतन-युगस्य आरम्भं करिष्यति।

तेन उक्तं यत् एषा पहलः सर्वकारस्य संवेदनशील-फलप्रद-कार्यप्रणाल्याः द्योतनं वर्तते। शुभारम्भ-समारोहस्य अवसरि मन्त्रीशर्मा प्रथमं पञ्जीकरणं कुर्वन्तः पञ्च उपभोक्तॄन् प्रमाणपत्रैः सम्मानितवन्तः। ते अवदन् यत् अद्यतनं आरम्भः तेषां उपभोक्तॄणां कृते नूतना राहत-किरणाऽस्ति येषां पर बर्षपर्यन्तं बकाया-बिलानां भारः आसीत्। योजनायाः प्रथम-चरणे पञ्जीकरणं कुर्वन्तः उपभोक्तारः शत-प्रतिशतं ब्याज-क्षमा तथा मूलधने अतिरिक्तं पञ्चविंशतिशत-राहतं प्राप्तुमर्हन्ति, येन तेषां देय-बोझः बहु मात्रा अल्पीभविष्यति।

ऊर्जा-मन्त्रिणा उक्तं यत् पञ्जीकरण-प्रक्रिया सरल-सुलभा कृताऽस्ति। उपभोक्ता विभागीय-तन्तु-जालपुटे (www.uppcl.org

), सम्बन्धित-खण्ड/उपखण्ड-कचेरीषु, जनसेवा-केन्द्रेषु, अथवा विभागीय-धन-कोष-काउण्टरतः स्वस्य पञ्जीकरणं कर्तुं शक्नुवन्ति। एषा योजना त्रिषु चरणेषु भविष्यति—

प्रथम-चरणम् १ दिसंबर २०२५ तः ३१ दिसंबर २०२५ पर्यन्तम्,

द्वितीय-चरणम् १ जनवरी २०२६ तः ३१ जनवरी २०२६ पर्यन्तम्,

तृतीय-चरणम् १ फरवरी २०२६ तः २८ फरवरी २०२६ पर्यन्तम्।

प्रथमे चरणे शत-प्रतिशतं ब्याज-क्षमा सह मूलधने पञ्चविंशतिशत-राहतं भविष्यति।

द्वितीये चरणे पन्द्रशत-राहतं,

तृतीये चरणे दशशत-राहतमेव दास्यते।

मन्त्रीशर्मा अवदन् यत् अस्मिन् अवसरि प्रधानमंत्री नरेन्द्र-मोदि तथा मुख्यमन्त्री योगी-आदित्यनाथ इत्येतयोः विशेषः श्रेयः अस्ति, यतो हि उपभोक्ता-हितानां प्रति सर्वोच्च-प्राथमिकता प्रदातुं तयोः संवेदनशील-दृष्टिकोणः एव अस्य योजनायाः प्रेरणाभूतः। प्रधानमन्त्रिणः “सबका साथ–सबका विकास–सबका विश्वास” इति संकल्पः तथा मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे विद्युत्-उपभोक्तॄणां प्रति सतत-राहत-प्रदान-नीतिः एतदेव सूचयति यत् षट्-वर्षेभ्यः विद्युत्-शुल्केषु कस्याञ्चन वृद्धेः अभावः अस्ति। अद्य तु एषा ऐतिहासिक-राहत-योजना प्रवर्तिता सती उपभोक्तॄणां आर्थिक-बोझम् अत्यन्तं न्यूनं करिष्यति।

अस्मिन् कार्यक्रमे विधायक-फाफामऊ गुरुप्रसादमौर्य, विधायक-फूलपुरम् दीपकपटेल, विधानपरिषद्-सदस्यः सुरेन्द्रचौधरी, जिला-अध्यक्षः गंगापार श्रीमती निर्मला-पासवान, पूर्वाञ्चल-विद्युत्-वितरण-निगमस्य प्रबन्ध-निदेशकः शम्भू-कुमार, मुख्य-विद्युत्-अभियन्ता, अधीक्षण-अभियन्ता, अधिशासी-अभियन्ता, विद्युत्-उपभोक्तारः तथा स्थानीय-नागरिकानां विशाल-समूहः उपस्थितः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani