गीतायाः क्रियात्मक योगेनैव परमात्मनः प्राप्तिः संभवा - अरूणचौबे
सोनभद्रम्, 1 दिसंबरमासः (हि.स.)। व्यक्तेः जीवनस्य भौतिक–सिद्धयः कदापि मनुष्यजीवनस्य सफलतायाः मापकः न माननीयाः। गीतातः ज्ञायते यत् प्रत्येकस्य मानवस्य हृदयस्थितात्मा एव परमात्मनः विशुद्धोऽंशः। गीतोक्तकर्मणैव व्यक्ति जन्म–मरण–चक्रात् मुक्तिं प्राप्
यथार्थ गीता


सोनभद्रम्, 1 दिसंबरमासः (हि.स.)।

व्यक्तेः जीवनस्य भौतिक–सिद्धयः कदापि मनुष्यजीवनस्य सफलतायाः मापकः न माननीयाः। गीतातः ज्ञायते यत् प्रत्येकस्य मानवस्य हृदयस्थितात्मा एव परमात्मनः विशुद्धोऽंशः। गीतोक्तकर्मणैव व्यक्ति जन्म–मरण–चक्रात् मुक्तिं प्राप्य परमात्मलाभं कृत्वा मनुष्यजीवनस्य वास्तविकां सिद्धिम् अवाप्नुयात्।

गीताजयंती–अवसरे आयोजितायां विचार–गोष्ठ्याम् अधुना गीता–प्रचारकः अरुण–चौबे अवदत्—आत्मिक–संपत्तिः एव व्यक्तेः असली संपत्तिः। गीटायां भगवान् श्रीकृष्णः अर्जुनं प्रति अवदत्—अस्य देहस्य इन्द्रियाण्यतिशयेन सूक्ष्माणि बलवत्तराणि च; इन्द्रियाणां परं मनः, ततोऽपि बलवत्तरं; मनसः परा बुद्धिः; बुद्धेः अपि अत्यन्तं परा भवति यत्, सा भवतः आत्मा। अतः काम–क्रोध–मोह–लोभादीनां त्यागं कृत्वा गीतोक्त–विधिना स्वस्य आत्मिक–संपत्तेः विकासः एव मनुष्यस्य वास्तविको लक्षः। अतः सम्पन्नभावेन हृदयस्थितात्मनः विकासः करणीयः।

चौबे अवदत्—जाति–पाति–वर्ण–संप्रदाय–लिङ्ग–गोत्र–प्रदेश–कबीलादिभेदान् अतिक्रम्य गीता शाश्वतसत्यस्य दिग्दर्शनं करोति। जगति प्रचलितानां सर्वेषां धार्मिक–विचाराणां आद्युत्पत्तिस्तले भारतस्य अध्यात्म–तत्त्वम् आत्मस्थितिप्रदं च समग्र–शोध–मार्गं स्पष्टं गीटायां वर्णितम्। तत्र ईश्वरः एकः, प्राप्तिः एकैव, अनुग्रहः एकः, परिणामः अपि एकः—सः प्रभोर्दर्शनम्, भगवद्रूपप्राप्तिः, कालातीतम् अनन्तजीवनम् च।

गीता–भाष्यं यथार्थ–गीता इत्येतत् अस्य यथार्थभावस्य सहजं अवगाहनमार्गम्। अस्य ईश्वर–वचसः मनन–चिन्तनम् अनुष्ठानं च कुर्वन्तः वयं स्वजीवनं सफलं कर्तुं शक्नुमः तथा प्रियजनानां कृते अध्यात्म–पूरितं वातावरणं वारसतां दातुं सफलाः स्याम।

हिन्दुस्थान समाचार