एसआईआर प्रति चर्चा न कर्तुमिच्छति सर्वकारः - गौरव गोगोई
नव दिल्ली, 1 दिसंबरमासः (हि.स.)।शीतकालीनसत्रस्य प्रथमदिने सोमवासरे लोकसभायाः कार्यवाही विपक्षिदलानां कोलाहलेन द्विवारं स्थगिता, पश्चात् परदिने मंगलवासरपर्यन्तं निवारिता च। अस्मिन् विषये लोकसभायां कांग्रेसदलस्य उपनेता गौरव गोगोई इत्यनेन आरोपितं यत्
गौरव गोगोई


नव दिल्ली, 1 दिसंबरमासः (हि.स.)।शीतकालीनसत्रस्य प्रथमदिने सोमवासरे लोकसभायाः कार्यवाही विपक्षिदलानां कोलाहलेन द्विवारं स्थगिता, पश्चात् परदिने मंगलवासरपर्यन्तं निवारिता च। अस्मिन् विषये लोकसभायां कांग्रेसदलस्य उपनेता गौरव गोगोई इत्यनेन आरोपितं यत् सरकार मतदाता-सूचेः विशेषगहनपुनरीक्षणस्य (SIR) विषयं चर्चार्थं न आनेतुम् इच्छति।

गोगोईनामकः संसद्भवनपरिसरे पत्रकारैः सह उक्तवान् यत् “संसद्भवने पक्षविपक्षयोः उभयोरपि विषयाः प्रस्थापनीयाः, किन्तु अद्य प्रथमदिने एव सत्तापक्षः केवलं स्वविषयेषु एव चर्चां कर्तुम् इच्छति। सत्तापक्षीयाः जनाः केवलं स्वयमेव प्रस्तुतैः विधेयकैः संबद्धां चर्चां कर्तुम् इच्छन्ति। सर्वेषां विपक्षीदलानां एकैव मागा अस्ति—निर्वाचनप्रक्रियां प्रति विस्तृता चर्चा भवतु। किन्तु सरकार न निगदितुं शक्नोति यत् कस्मिन् दिने एषा चर्चा भविष्यति।”

तेन उक्तं यत्— “सर्वकारः स्वेच्छयैव संसदं सञ्चालितुम् इच्छति, यस्यां विपक्षस्य कश्चन विषयः नास्ति। सत्तापक्षेनेव सर्वं सदनं लोकतन्त्रस्य मर्यादाः च अपहृताः।”

------------

हिन्दुस्थान समाचार