शीतकालीन सत्रात् प्रथमस्य मल्लिकार्जुन खरगे इत्यस्य कार्यालये जाता विपक्षी गठबंधनस्य गोष्ठी
नवदिल्ली, 1 दिसंबरमासः (हि.स.)। अद्य आरब्धस्य संसदस्य शीतकालीनसत्रस्य पूर्वमेव विपक्षीय इण्डीगठबन्धनस्य प्रमुखनेतारः रविवासरे संसदभवनपरिसरे विपक्षनेतुः मल्लिकार्जुन खरगे इत्यस्य कार्यालये उपवेशनं कृतवन्तः। अस्मिन् सम्मेलने राहुलगान्धी गौरवगोगोई
इंडी गठबंधन के फ्लोर लीडर्स


नवदिल्ली, 1 दिसंबरमासः (हि.स.)।

अद्य आरब्धस्य संसदस्य शीतकालीनसत्रस्य पूर्वमेव विपक्षीय इण्डीगठबन्धनस्य प्रमुखनेतारः रविवासरे संसदभवनपरिसरे विपक्षनेतुः मल्लिकार्जुन खरगे इत्यस्य कार्यालये उपवेशनं कृतवन्तः।

अस्मिन् सम्मेलने राहुलगान्धी गौरवगोगोई कमलहासन प्रियंका चतुर्वेदी रामगोपालयादव सैयद् नसीरहुसैन इत्यादयः बहवः पक्षनेतारः उपस्थिताः आसन् तथा संयुक्तनीतिपत्रस्य रूपरेखा अन्तिमरूपेण निश्चितवती।

ततः पूर्वं कांग्रेसदलेन रविवासरस्य सायं काले सोनियागान्धिनः अध्यक्षतायां स्वस्य संसदीयनैतिकसमूहस्य उपवेशनमपि कृतम्। तत्र मल्लिकार्जुन खरगे राहुलगान्धी पी चिदम्बरम् इत्यादयः वरिष्ठनेतारः अपि उपस्थिताः।

विपक्षः शीतकालीनसत्रे राष्ट्रस्य सुरक्षा देहल्यां जातस्य सद्यस्कस्य विस्फोटस्य मतदातृसूच्याः गहनपुनरीक्षणस्य एसआईआर नामकस्य तथा वायुप्रदूषणस्य विषयेषु सर्वकारं प्रति प्रश्नोद्धाटनस्य सज्जतां कुर्यात्।

---------------

हिन्दुस्थान समाचार