Enter your Email Address to subscribe to our newsletters

इन्दौरनगरम् ०१ दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरजनपदे युवकेभ्यः निजीक्षेत्रस्य प्रतिष्ठितसंस्थानेषु रोजगारं दातुं निरन्तरं रोजगारमेळाः आयोजनं क्रियन्ते। जनपदप्रशासनस्य जनपदरोजगारकार्यालयस्य च संयुक्तेन प्रयासेन अद्य सोमवासरे युवासङ्गमकार्यक्रमस्य अन्तर्गतं प्रधानमन्त्रीकॉलेजऑफएक्सीलेन्स – श्री अटलबिहारीवाजपेयीशासकीय-कलावाणिज्यमहाविद्यालये (जीएसीसी) प्रातः १० वादनात् सायं ४ वादनपर्यन्तं रोजगारमेळः आयोजितो भविष्यति।
रोजगारउपसंचालकः पी.एस. मण्डलोई इत्यनेन उक्तं यत् अस्मिन् मेलायां आवेदकेभ्यः उत्तमं कार्यावसरं लब्धुं शक्यते। युवकेभ्यः रोजगारसहितं स्वव्यवसायारम्भणार्थं ऋणप्रक्रियायाः अपि सूचना प्रदास्यते। अस्य मेलायाः माध्यमेन प्रतिष्ठितसंस्थानेषु ८०० युवकेभ्यः रोजगारः प्रदास्यते। मेलायां रामाफॉस्फेट्स्, पीवीआर-आइनॉक्स्, आईसेक्ट्, एप्पलफ्लेक्सपैक्, स्टेपएकेडमी, बालाजीग्रुप्, फार्मा-ग्रोथ्, डिस्टिलएजुकेशनएण्डटेक्नोलॉजी, पेटीएम्, जस्टडायल्, ब्लिंकिट्, सैफायरफूड् (केएफसी), डॉ. रेड्डीज्, ओशनमोटर्स्, मोज़ेक प्रा. लि., इंस्टाकनेक्ट्स्, शेफालीबिजनेससोल्यूशन्स् इत्यादयः प्रतिष्ठितसंस्थानः नियुक्तिप्रक्रियां करिष्यन्ति। बैकऑफिस्, कम्प्यूटरऑपरेटर्, फार्मासिस्ट्, सेल्स्, बीपीओ, पैकेजिंग्, सहायकः, तकनीशियनपदानि (फिटर्/इलेक्ट्रीशियन्/टर्नर्/मशिनिस्ट्/वेल्डर् इत्यादयः), डिजिटलमार्केटिंग् इत्यादीनि विभिन्नानि पदानि सन्ति, यैः सह आकर्षकं वेतनं दास्यते।
अस्मिन् रोजगारमेलायां १८–४० वर्षपर्यन्तं आयुवन्तः आवेदकाः, ये पञ्चमी/अष्टमी/उच्चप्राथमिक-उच्चमाध्यमिकस्तरादारभ्य स्नातकोत्तरस्तरपर्यन्तं कस्मिंश्चित् विषयि उत्तीर्णाः, तदनुसारं वा तकनीकीयोग्यतायुक्ताः (यथा – आईटीआई) सन्ति, ते सर्वे आवेदनं कृत्वा स्वयोग्यतानुसारं रोजगारं प्राप्तुं शक्नुवन्ति। मेलायां आगच्छद्भिः आवेदकैः सर्वे शैक्षणिकप्रमाणपत्राणि, जीवनवृत्तस्य प्रतयः, आधारपत्रादयः प्रमाणपत्राणां छायाप्रतयः च सह आनीयाः अनिवार्यं भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता