मध्यप्रदेशे अद्य आरभ्यते अन्ताराष्ट्रियगीतामहोत्सवः, मुख्यमन्त्रिणा यादवेन करिष्यते शुभारम्भः
हरियाणाराज्यस्य मुख्यमन्त्री इन्दौरे मध्यप्रदेशस्य प्रथमगीताभवनस्य उद्घाटनं करिष्यति। भोपालम्, ०१ दिसम्बरमासः (हि.स.)। मध्यप्रदेशे अद्य त्रिदिवसीयः अन्ताराष्ट्रीयगीतामहोत्सवः आयोजनायते। मुख्यमन्त्री डॉ. मोहनयादवः गीताजयंतीनिमित्ते अस्य महोत्सवस्य
अंतरराष्ट्रीय गीता महोत्सव


हरियाणाराज्यस्य मुख्यमन्त्री इन्दौरे मध्यप्रदेशस्य प्रथमगीताभवनस्य उद्घाटनं करिष्यति।

भोपालम्, ०१ दिसम्बरमासः (हि.स.)। मध्यप्रदेशे अद्य त्रिदिवसीयः अन्ताराष्ट्रीयगीतामहोत्सवः आयोजनायते। मुख्यमन्त्री डॉ. मोहनयादवः गीताजयंतीनिमित्ते अस्य महोत्सवस्य शुभारम्भं करिष्यन्ति। अस्मिन् अवसरे प्रदेशस्य ३१३ विकासखण्डेषु, ५५ जनपदमुख्यालयेषु, १० संभागेषु च आचार्यसन्निधौ त्रिलक्षाधिकाः गीताभक्ताः श्रीमद्भगवद्गीतायाः पञ्चदशाध्यायस्य सामूहिकं सस्वरं पाठं करिष्यन्ति।

गीता-जयंत्यां उज्जयिन्यां, भोपालं, इन्दौरे च विशेषायोजनानि क्रियन्ते। इन्दौरस्य राजवाडायां गोपालदेवालये हरियाणस्य मुख्यमन्त्री नायबसिंहसैनी, मुख्यमन्त्री डॉ. मोहनयादवश्च उपस्थितौ स्यातां, तत्रैव मध्यप्रदेशस्य प्रथमं गीताभवनम् उद्घाट्यते। अस्मिन् समये १६–२८ नवम्बर २०२५ पर्यन्तं आयोजितायाः श्रीमद्भगवद्गीताज्ञानप्रतियोगितायाः विजेतृणां नामानि अपि प्रकाशितानि भविष्यन्ति।

मुख्यमन्त्रिणः सांस्कृतिकोपदेशकः, वीरभारतन्यासस्य न्यासीसमितेः सचिवः श्रीरामतिवारी अवदत् गीताजयंत्यां मध्यप्रदेशे अन्ताराष्ट्रीयगीतामहोत्सवः भव्यरूपेण आयोजितः। अस्मिन् अवसरे उज्जयिन्याः दशहराक्षेत्रे ३ दिसम्बरपर्यन्तं विविधसांस्कृतिककार्यक्रमाः प्रचलन्ति। प्रथमदिने अभिनेता पुनीतइस्सरनिर्देशिता जय श्रीकृष्ण इति नृत्यनाटिका प्रदर्श्यते। द्वितीयदिवसे नवदेहलीनिवासिन्याः वैष्णवीशर्मायाः विराटजयी इति काव्यपाठः, तथा मुम्बईस्थितस्य मोहितशेवानीदलस्य च कृष्णायन इति सांगीतिकप्रस्तुतिः भविष्यति। अन्तिमदिवसे उमेशतरकसवारनिर्देशिता विश्ववन्दनीया, तथा बेंगलूरुनिवासिनः डॉ. सलाउद्दीनपाशानिर्देशिता गीता ऑन व्हील्स् इति प्रस्तुति भविष्यति। अनेन सह लघुचित्रशैलीस्थितं माधवदर्शनम् इति प्रदर्शनी अपि दर्श्यते।

भोपालस्य रवीन्द्रभवने दिव्याङ्गकलाकारैः गीता ऑन व्हील्स् प्रस्तुता भविष्यति।श्रीरामतिवारी अवदत् मुख्यमन्त्री डॉ. यादवस्य मुख्यातिथित्वे रवीन्द्रभवने मध्याह्ने १ वादने श्रीमद्भगवद्गीतायाः पञ्चदशाध्यायस्य सस्वरपाठः, प्रदर्शनी-उद्घाटनं च भविष्यति। हंसध्वनि-सभागारे मोहितशेवानी-निर्देशने कृष्णायन इति प्रस्तुति दास्यते, या भगवान् श्रीकृष्णस्य मध्यप्रदेशस्य च कथाकथानकं मूलं कृत्वा सज्जिता अस्ति। पूर्वं बेंगलूरुनगरस्य डॉ. सलाउद्दीनपाशा निर्देशिता गीता ऑन व्हील्स् प्रस्तुता, यत्र दिव्याङ्गकलाकाराः गीताप्रसङ्गान् नाट्यरूपेण दर्शयिष्यन्ति, तथा विश्वगीताप्रतिष्ठानं द्वारा श्रीमद्भगवद्गीतानृत्यनाटिका प्रदर्श्यते। प्रस्तुति सांयकाले ६ वादनम् आरभ्यते।

इन्दौरस्थिते गोपालदेवालये विशेषकार्यक्रमाःतिवारी अवदत् इन्दौरे मुख्यमन्त्री डॉ. यादवः, हरियाणस्य मुख्यमन्त्री सैनी च मुख्यातिथित्वेन मध्यप्रदेशस्य प्रथमगीताभवनस्य उद्घाटनं करिष्यतः। अनन्तरं १६–२८ नवम्बर २०२५ यावत् आयोजितायाः श्रीमद्भगवद्गीताज्ञानप्रतियोगितायाः विजेतृणां नामानि उद्घोष्यन्ते। पुरस्कारवितरणं गणतन्त्रदिने २६ जनवरी २०२६ काले भविष्यति। अस्मिन् अवसरे संजीवमालवीं निर्देशिता कृष्णायन नृत्यनाटिका अपि प्रदर्श्यते

हिन्दुस्थान समाचार / अंशु गुप्ता