Enter your Email Address to subscribe to our newsletters

कोलकाता, ०१ दिसम्बरमासः (हि.स.)। राज्यसर्वकाराया: पूर्वघोषणां अनुसारं प्रथमे दिसम्बरदिवसे पश्चिमबङ्गालयां मदिरायाः मूल्यानां वृद्धिः प्रवर्तिता। नवनियमे अनुसारं नूतनम् आबकारीशुल्कं राज्ये प्राभविकं जातम्। पश्चिमबङ्गालस्य आबकारीविभागेन स्पष्टीकृतम् यत् बीयरनाम्ना पेयं विहाय देशीयविदेशीयसर्वेषां मद्यप्रकाराणां उपरि अतिरिक्तकरः आरोपितः।
आबकारीविभागस्य सूचना अनुसारम् ७५० मिलिलीटर–मितस्य विदेशीमद्यस्य मूल्यं ३०–४० रूप्यकपर्यन्तं वर्धितम्। १८० मिलिलीटरपात्रे अपि १० रूप्यकवृद्धिः कृता। देशीयमदिराक्रयकाले अपि उपभोक्तृभ्यः प्रायः १० रूप्यकाणि अधिकानि दातव्यानि।
विभागेन मद्यविक्रेतॄन् पूर्वमेव निर्देशितं यत् तेषां हस्तगतं पुरातनसञ्चयं नवम्बर् ३० दिनाङ्कपर्यन्तं पुरातनमूल्ये एव विक्रीयताम्। दिसम्बर् १ दिवसात् पुरातननवीनसर्वः सञ्चयः नूतनमूल्येन एव विक्रीतव्यः। अस्य कृते प्रतिकूपी नवीनमूल्यचिह्नम् अनिवार्यतया स्थापितव्यम्। यदि कश्चित् विक्रेता पुरातने मूल्ये मदिरां विक्रीयते इति दृष्टः तर्हि तस्मात् दण्डः, अपि तु अनुज्ञापत्रनिषेधनं यावत् कठोरकार्यवाही भविष्यति।
अनेकविशेषज्ञानां मतम् अस्ति यत् आगामिनिर्वाचनपूर्वं राज्यस्य राजस्ववृद्धये ममताबनर्जीसर्वकारेण एषः उपक्रमः कृतः।
प्रशासनिकाधिकारिणां कश्चन वर्गः वदति यत् अस्य मूल्यवृद्धेः परिणामतः २०२५–२६ वित्तवर्षे प्रायेण चतुःसहस्रकोट्यधिकराजस्वाय सम्भाव्यते।
राजनीतिकवृत्तेषु अपि चर्चास्ति यत्, वर्धितराजस्वराशिं सर्वकारा विकासयोजनासु विनियोजयितुं शक्नोति। आगामिवर्षे निर्वाचनपूर्वं राज्यसर्वकारस्य अन्तरिमायव्ययकं प्रस्तुतव्यं, यस्मिन् अस्य अतिरिक्तायस्य विकासपरियोजनासु विनियोगः घोषयितुं शक्यते। अतः एव राज्ये मदिरामूल्यवृद्धिः कृतमिति कारणं स्वीकृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता