Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 01 दिसंबरमासः (हि.स.)। “एकः भारतः श्रेष्ठः भारतः” इति उपक्रमस्य आधारेण लोकभवन-असमे सोमवासरे नगालैण्ड-स्थापनादिवसः गरिमायुक्तेन प्रकारेण आचरितः। लोकभवनस्य सम्मेलन-प्रकोष्ठे आयोजिते अस्मिन् समारोहेत् राज्यपालः लक्ष्मणप्रसादाचार्यः मुख्यातिथिरूपेण उपस्थिताः। कार्यक्रमस्य उद्देश्यं विविधतायां ऐक्यभावनां सुदृढीकर्तुं तथा राज्ययोः मध्ये सांस्कृतिक-बोधं वर्धयितुं आसीत्।
समारोहम् अभिभाष्य राज्यपालाचार्येण नगालैण्डस्य समृद्धां संस्कृतिम्, सजीवनपरंपराः, अद्वितीयां जनजातीय-परम्परां च प्रशंसिता। ते अवदन् यत् नगा-समाजस्य साहसम्, परिश्रमः, सम्मान-मूल्यं च समग्रराष्ट्रस्य प्रेरणास्रोतं भवति। राज्यपालेन उक्तं यत् नगालैण्डस्य लोककला, हस्तशिल्पम्, लोकपरंपराः, जनजातीयसंस्कृतिश्च भारतस्य सांस्कृतिकविविधतां अधिकं समृद्धां कुर्वन्ति। विशेषतः हॉर्नबिल-महोत्सवस्य उल्लेखं कृत्वा तेन “नगा-सामाजिक-आत्मनः उत्सवः” इति अभिधाय वैश्विक-मञ्चे राज्यस्य विशिष्ट-पहचानं सुदृढं करणं प्रकटितम्।
अस्मिन् अवसरे राज्यपालेन नगालैण्डस्य वीरस्वातन्त्र्यसैनिकायै रानी-गाइदिनल्यू इत्यस्यै अपि श्रद्धाञ्जलिः अर्पिता, भारतस्य स्वतंत्रतासंग्रामे तस्याः योगदानं नित्यं प्रेरणादायि भविष्यति इति च उक्तम्। नगालैण्डस्य संभावनाविशेषान् उल्लिख्य आचार्येण उक्तं यत् राज्यस्य प्रचुराः जलसंसाधनाः, खनिजसम्पदः, अनुकूल-जलवायुः, परिश्रमी जनमानस च आर्थिक-विकासे महत्त्वपूर्णं कार्यं कुर्वन्ति। तेन उक्तं—यत् कस्यापि राज्यस्य स्थापनादिवसः तस्य नायकान्, संस्कृतिं, परंपरां च स्मृत्वा नूतनया ऊर्जया अग्रे गन्तुं अवसरः भवति। तेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः तं दृष्टिकोणं स्मारितम्, यस्य आधारेण “एकः भारतः श्रेष्ठः भारतः” इति उपक्रमारम्भः जातः, यस्य उद्देश्यः देशस्य सांस्कृतिक-ऐक्यं परस्परबोधनं च सुदृढं कर्तुम् अस्ति।
कार्यक्रमस्य अवसरे नगालैण्डस्य पारंपरिक-संगीतस्य सांस्कृतिक-न्यासास्य च प्रदर्शनं कुर्वन् सांस्कृतिक-प्रस्तुतिः अपि आयोजितासीत्। समारोहे नगालैण्ड-राज्यस्य अतिरिक्त-अधिवक्ता-जनरल् मोनिका-केची, CDA (सेना) गुवाहाटी इत्यस्य असिस्टण्ट् कंट्रोलर् ऑफ् डिफेन्स् अकाउंट्स् ओतुला-ओजुकुम्, GAD-इत्यस्य अतिरिक्त-सचिवः पार्थ-पेगु, राज्यपालस्य PPA डॉ. एस्.एन्. भौमिक्, नगालैण्ड-हाउस् गुवाहाटी इत्यस्य DRC इलिका-झिमोमी इत्येवं बहवः गरिमायुक्ता अतिथयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani