लोकसभायाम् एसआईआर आधृत्य विपक्षस्य कलहः, सत्रं 2 वादनं यावत् स्थगितम्
नवदिल्ली, 01 दिसंबरमासः(हि.स.)।अद्य आरब्धे संसदस्य शीतकालीनसत्रे लोकसभायाः कार्यप्रवृत्तिः विपक्षस्य प्रबलकोलाहलात् अवरोधिताभूत्। मतदातृसूच्याः विशेषगहनपुनर्रीक्षणस्य एसआईआर सम्बन्धेन विपक्षीयदलसदस्यैः प्रबलविरोधप्रदर्शनं कृतम्, यस्य परिणामस्वरूपं
लोकसभा


नवदिल्ली, 01 दिसंबरमासः(हि.स.)।अद्य आरब्धे संसदस्य शीतकालीनसत्रे लोकसभायाः कार्यप्रवृत्तिः विपक्षस्य प्रबलकोलाहलात् अवरोधिताभूत्। मतदातृसूच्याः विशेषगहनपुनर्रीक्षणस्य एसआईआर सम्बन्धेन विपक्षीयदलसदस्यैः प्रबलविरोधप्रदर्शनं कृतम्, यस्य परिणामस्वरूपं लोकसभायाः कार्यवाही द्विवारं स्थगिता। अन्यतः राज्यसभायाः कार्यप्रवृत्तिः सम्यक् प्रवहति।

सत्रस्य आरम्भे लोकसभायां पूर्वसांसदः कर्नल सोना राम चौधरी विजय कुमार मल्होत्रा रवि नाइक धर्मेन्द्र तथा श्रीप्रकाश जायसवाल इत्येतान् पञ्चान् पूर्वसदस्यान् प्रति शोकः व्यक्तः। सदने तेषां परिवाराणि प्रति संवेदनां व्यक्त्वा द्विमिनिटं मौनं धृत्वा श्रद्धाञ्जलिः अर्पिता।

शोकप्रस्तावस्य अनन्तरं यदा नियमितकार्यप्रवृत्तिः आरब्धा तदा विपक्षीयसांसदाः एसआईआर विषयम् उद्घोषयन्तः अध्यक्षीयासनस्य समीपं वेल नाम्नि स्थलेऽगच्छन्।

लोकसभाध्यक्षः ओम बिरला अवदत् यत् सदनं चर्चा संवादयोः मंचः अस्ति तद् शान्तिपूर्वकं प्रवहितव्यम्, किन्तु तस्य आह्वानस्य प्रभावः नाभूत् विपक्षीयसदस्याश्च निरन्तरं घोषणां कुर्वन्तः स्थिताः।

अबाधितकोलाहलम् अवलोक्य अध्यक्षेन कार्यप्रवृत्तिः आरम्भात् विंशतिमिनिटानन्तरं एव एकघण्टायाः अवकाशेन मध्याह्नद्वादशवादनपर्यन्तं स्थगिता। ततः द्वादशवादने कार्यवाही पुनः आरब्धा, किन्तु विपक्षस्य विरोधः निरन्तरं प्रवृत्तः। सांसदाः नारेबाजीं कुर्वन्तः एसआईआर विषये स्वविरोधं पुनरावृण्वन्तः तिष्ठन्ति।

अव्यवस्थां दृष्ट्वा अध्यक्षेण पुनरपि सदनस्य कार्यप्रवृत्तिः स्थगिता तथा द्विवादनपर्यन्तं निलम्बिता। अस्मिन् काले राज्यसभायाः कार्यवाही तु यथासामान्यं

प्रवहति।

---------------

हिन्दुस्थान समाचार