एसआईआर विरूद्धम् अपवादं प्रसारयितुं कार्यं कुरुते सपा कांग्रेसदलं च -केशव प्रसाद मौर्यः
लखनऊ,01 दिसम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः सोमवासरे लखनऊस्थे स्वगृह एव पत्रकारैः सह संवादं कुर्वन् अवदत् यत् समाजवादीपक्षः कांग्रेसपक्षः च एसआईआर प्रक्रियायाः विरुद्धम् अफवाहप्रसारणं कुर
उप मुख्यमंत्री केशव प्रसाद मौर्य


लखनऊ,01 दिसम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः सोमवासरे लखनऊस्थे स्वगृह एव पत्रकारैः सह संवादं कुर्वन् अवदत् यत् समाजवादीपक्षः कांग्रेसपक्षः च एसआईआर प्रक्रियायाः विरुद्धम् अफवाहप्रसारणं कुर्वन्ति।

उपमुख्यमन्त्री अवदत् यत् बिहारराज्ये विपक्षस्य यथा आचरणं तस्यां स्थितौ बिहारस्य मतदाता अतिरुष्टः आसीत्। विपक्षस्य आचरणं समग्रदेशं क्रुद्धं कृतम्। एसआईआर प्रक्रिया लोकतन्त्रस्य सुदृढीकरणाय अत्यन्तं महत्त्वपूर्णा अस्ति। केशवप्रसादमौर्यः अवदत् यत् मतदातासूच्याः शुद्धीकरणं कर्तव्यम्। मतदातासूच्यां ये फर्जीनामानि सन्ति ते हटनीयाः। युवा मतदाता नवीनानि नामानि च मतदातासूचौ योजनीयानि। किन्तु अस्य प्रक्रियायाः विरुद्धम् समाजवादीपक्षेन कांग्रेसपक्षेन टीएमसी राजद पक्षैः च निरन्तरम् अफवाहाः प्रसारिताः। तेन एव एतेषां पक्षानां हानिः भविष्यति। जनता जागरूका अस्ति।अवैधप्रवेशाःनिष्कासिताः भविष्यन्ति। वास्तविकमतदाता सूचौ एव स्थास्यति। सर्वेषां बीएलओ कर्मकराणां प्रति अपील भवति यत् ते स्वकर्तव्यं सम्यक् पालनं कुर्वन्तु। विपक्षस्य वाक्यैः मोहिताः मा भवन्तु। हताशा निराशा वा मा भवतु। किञ्चिदेव समयस्य कार्यं अस्ति। अस्य अभियाने सफलतां नेत्रतुं दायित्वं तेषामेव स्कंधेषु भवति।

--------------

हिन्दुस्थान समाचार