Enter your Email Address to subscribe to our newsletters

शिवपुरी, 01 दिसंबरमासः (हि.स.)। गीता जयंत्याः अवसरपर्यायेन सोमवासरे मध्यप्रदेशे अभूतपूर्वं ऐतिहासिकं च आयोजनं कृतम्। अस्मिन् अवसरि शिवपुरीजनपदस्य करैराउत्कृष्टविद्यालयस्य प्राङ्गणे समारोहः आयोजितः, यस्मिन् पञ्चशताधिकाः विद्यार्थीना भागग्रहणं कृतम्।
कार्यक्रमस्य अध्यक्षतां वहन् स्वामी रुद्रचैतन्यपुरी महाराजः दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तः। तस्मिन् काले नगरपरिषदाध्यक्षः शारदारामस्वरूपरावतः, उपाध्यक्षः राजीवसिकरवारः, जनपदपंचायसद्यक्षः पुष्पेन्द्रजाटवः, अनुविभागीयअधिकारी अनुरागनिंगवालः, तहसीलदार कल्पनाशर्मा, बीइओ स्वीटीमंगल, विद्यालयप्राचार्यः अरविन्दयादवः समग्रशिक्षकवर्गः च उपस्थिताः आसन्।
अन्ताराष्ट्रियगीतमहोत्सवस्य छत्रच्छायायाम् अस्मिन् कार्यक्रमे श्रीमद्भगवद्गीतायाः पञ्चदशोऽध्यायः सामूहिकेन सस्वरपाठेन अनुश्रावितः। एतस्मिन् पाठे पञ्चशताधिकाः छात्राः छात्राश्च सम्मिलिताः। अस्य महतो आयोजितस्य प्रयोजनं जनान् गीता उपदेशेन संबद्धान् कर्तुं जीवनस्य जटिलसमस्यासु समाधानं दातुं च आसीत्।
कार्यक्रमस्य मुख्याः प्रस्तुतयः यत्समारोहस्य सफलसंचालनं धनीरामयादवेन वरिष्ठशिक्षकेन संजयदुबेने च कृतम्। गीतगायनं सुनीताशुक्लया कृतम्। दीपप्रज्वलनं सरस्वतीपूजनं गीता पूजनं च वरिष्ठशिक्षिकया पूजाशर्मया सम्पन्नम्। शंखनादं रामकुमारशुक्लेन, स्वस्तिवाचनं कौशलकिशोरशर्मणा कृतम्। अतिथिपरिचयं नरेन्द्रश्रीवास्तवेन दत्तम्। प्रेरणागीतं शिवशंकरतिवारी, साधनापाठक, नरेन्द्रश्रीवास्तव, सीमागुप्ता, अमृतपचन, मनीषागुप्ता इत्यादिभिः प्रस्तुतम्। प्रेरणादायकाः प्रसङ्गाः अपि श्राविताः।
संक्षिप्तव्याख्यानम् आशीर्वचनं च स्वामी रुद्रचैतन्यपुरी महाराजेन प्रदत्तम्। कार्यक्रमस्य समापनकाले कृतज्ञताज्ञानं धनीरामयादवेन कृतम्।
---------------
हिन्दुस्थान समाचार